________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्ड: गच्छन्नाऽऽसीत्तमानयितुं लोकैरहं प्रेषित इतश्चैतैस्त्रिभिरेव विवाहो निर्धारितः । यद्यहं तत्र स्यां तदाऽवश्यमेव पश्येयम्, परं किं करोमि ? ममेयं त्रुटियथार्थमस्ति, नाऽत्र मेऽपराधोऽस्ति । एतदाकर्ण्य राजा स्वान्ते चिन्तयितुमलगत्- अनेनापि वरो न दृष्टः, स्वाऽपराधं च गोपयितुमाडम्बरं तनोति, अतस्तुर्यमाकार्य प्रष्टव्यं, यत्स किं कथयति ? तदनन्तरमेवाऽऽहूतं तमपृच्छत्- महाशय ! सम्प्रति भवतो वेलाऽऽगता यद्यसत्यं वदिष्यसि तदा तस्य दण्डो भवत एव भोक्तव्यो भविष्यति । यतःपुरुषः कुरुते पापं, बन्धुनिमित्तं वपुर्निमित्तं वा । वेदयते तत्सर्वं, नरकादौ पुनरसावेकः
॥२९॥ तन्निशम्य तेनोक्तम्- राजन् ! अनृतं बहुकालस्थायि न भवति, अतोऽहं सत्यं वदिष्यामि, मिथ्याऽऽभाष्याऽदण्डाऽपेक्षया सत्यमुक्त्वा दण्डोऽपि वर इति मे सम्मतं, तथ्यं त्वेतदस्ति, यत्सिंहलेशः कथमपि कुमारं विवाहयितुं स्वीकृतो नाऽऽसीत्परं हिंसकमन्त्रिणा विवाहो निर्धारितः । तदनन्तरमस्माकं वरदिदृक्षायां सत्यामपि विविधवार्तया स कालक्षेपणं कर्तुमलगत्, यथा- कुमारो मातामहावासे विद्यते, स ततः सम्प्रति नाऽऽगन्तुमर्हति, पुनर्यदाऽस्माभिरत्याऽऽग्रहेणोक्तम्- कुमारमदृष्ट्वा वयमितो न गमिष्यामस्तदा तेनाऽ-स्माकं चतुर्णामपि कोटिदीनाराणां पारितोषिकमेकैकस्मै प्रदत्तम्, यतो दानमाहात्म्येनेह परत्र च किञ्चिदपि दुस्साध्यं नास्ति । .... यतः
|| १३२ ।।