________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः ___राजकुमारीप्रेमलाया मृत्युदण्डः दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्ततः पृथिव्यां प्रवरं हि दानम् ॥३०॥
राजन् ! सर्वेषामपि प्राणिनां लोभो दुस्त्याज्य इति बद्धमुखा वयं तदानीमेव सर्वं निश्चित्य वरदर्शनं विनैवाऽऽगताः । तस्मान्निश्चयं भवन्तं प्रति विश्वासघातकाः स्मस्तदर्थं दण्ड्यानस्मान् यथारुचि दण्डयितुमर्हति, अत्र मिथ्यालेशोऽपि नाऽस्ति । तद्वचसा विश्वस्तो राजा प्रेमलाया निर्दोषतां नितराममन्यत । हे प्रिय-पाठकाः ! पुण्योदये जाते सर्वेऽपि सानुकूलतां व्रजन्ति । अतश्चोक्तम्न देवतीर्थैर्न पराक्रमेण, न मत्रतवैर्न सुवर्णदानैः । न धेनुचिन्तामणिकल्पवृक्ष-विना स्वपुण्यैरिह वाञ्छितार्थाः ॥३१॥ ____ तदा राज्ञा सुबुद्धिरूचे- मन्त्रिन् ! अत्र विवादे तु बहुप्रपञ्चोऽस्ति, एते चत्वारः प्रलोभने पतिता अतस्तैर्वरदर्शनं विनैव विवाहो निर्धारितः । त्रयस्तु लोभजाले पतिता बालका इव कपोलकल्पितां कथां श्रावयन्ति । तत्र प्रलोभनेनाऽनुचितकारिणामप्येतेषां तथा दोषो न मन्ये, यथा सिंहलेशेन तन्मन्त्रिणा चातिकृतापराधं मन्ये। यतस्ताभ्यां ज्ञात्वाऽपि भूतपूर्वकुष्ठिनः कुमारस्य सकलदूषणं मदुहितुः शिरसि स्थापनाय चेष्टितमस्ति । अत एतान् स्वमन्त्रिणो मोक्तुमिच्छामि, परं सिंहलेशादीनां विषये ते को विचार: ? सुबुद्धिनोक्तम्- सर्वतः प्रथमं प्रेमलाया यथार्थपतेरन्वेषणं कार्य, तच्छुद्धिं तद्वार्ताश्रवणं च यावदस्य विवादस्य तत्त्वनिर्गमनं कथं भविष्यति ? अतस्तावत्कालपर्यन्तं सपरिवारः सिंहलपतिः कारागारे
॥ १३३||