________________
चन्द्रराजचरित्रम्
द्वादशः परिच्छेदः
राजकुमारीप्रेमलाया मृत्युदण्डः
सर्वे प्रथमं वक्तुं बिभ्यति, अत एते चत्वारोऽपि रहसि पार्थक्येनाऽऽहूताः प्रष्टव्याः, येन समस्तं रहस्यं विदितं भवेत् । सुबुद्धिवचो युक्तं ज्ञात्वा तेष्वेकतमं मन्त्रिणमाहूयैकान्ते सत्यकथनाय राजाऽवदत्, बद्धाञ्जलिना तेनोक्तम्- महाराज ! मया भवल्लवणो भक्षितस्तस्माद् भवत्समक्षे कदापि मिथ्या न वदिष्यामि । मया भवत्कार्येऽवश्यं त्रुटिः कृता, यदा सिंहलपुर्यां सर्वे वयं कुमारदर्शनाय परिणयनिश्चयाय चाऽगच्छाम तदाऽऽवासे विस्मृताऽङ्गुलीयकाऽऽनयनाय तत्र गते मय्यन्तर एव कुमारं विलोक्यैतैस्त्रिभिर्विवाहः स्थिरीकृतः । न त्वहं स्वनेत्राभ्यां कुमारमद्राक्षं, न च वार्तायां कञ्चिद् भागमग्रहीषम्, अतोऽहं नैजमागोऽङ्गीकृत्य भवन्तं क्षमाप्रार्थनां याचे । तस्य तद्वचनं श्रुत्वा राजा विवेद - यदन्यद् वृत्तं तथ्यमतथ्यं वा स्यात्किन्त्वेतेन वरो न दृष्ट इति तु निर्विवाद एवाऽस्ति । अतः परमन्यः किं कथयति ? तत् श्रोतव्यं तदैवाऽन्यमपि तथैवाऽऽहूय पृष्टे सति तेनोक्तम् - राजन् ! सर्पो बहिस्तिर्यक् चलतु नाम, किन्तु बिलप्रवेशकाले तस्य तत्कौटिल्यं त्याज्यं भवति, तथाहं तत्त्यक्त्वा सत्यं सत्यं कथयामि । महाराज ! सत्यं त्वेतदस्ति- विवाहवार्तालापदिनात्पूर्वदिने कृताऽधिकभोजनस्य मेऽजीर्णतया पुरीषोत्सर्गचिन्तोत्पन्ना तेन तत उत्थायाऽहं बहिरागतः, पश्चादेतैरेव निश्चितो वरो गौरः श्यामो वा तन्नाऽहं जानामि या च मे तदवलोकनेच्छाऽऽसीत्सा मनस्येवाऽतिष्ठत ।
-
ततस्तृतीये चाऽऽहूते पृष्ठे तेनोक्तम्- महाराज ! विवाहवार्तानिर्धारणकाले वरः काणः कुब्जोऽन्धो वेति मया न दृष्टस्तत्र न मे दोषो यतस्तदानीं सिंहलपतेर्भागिनेयः क्रोधेन कुत्रचित्पलायितो
।। १३१ ।।