________________
चन्द्रराजचरित्रम् द्वादशः परिच्छेदः
राजकुमारीप्रेमलाया मृत्युदण्डः
I
ष्यामीति कस्याऽपि विषयस्य त्वया चिन्ता न कार्या । तस्याऽनया सान्त्वनया शान्ता सा कियन्तं कालं यावत्स्वीयं कृत्स्नमपि दुःखं विसस्मार । सदैव सायंकाले राजा मकरध्वजः स्वराजसभायामुपवेशनं कृतवानासीत् । अत्रान्तरेऽवसरं ज्ञात्वा मन्त्री राजानं प्रत्यूचे - महाराज ! राजकुमार्याः परिणयवार्तां स्थिरीकर्तुं मन्त्रिचतुष्टयं सिंहलपुरीं प्रति प्रेषितमिति भवतो नो विदितमस्ति किम् ? ततः परावृत्याऽऽगते तस्मिन् तेन कुमारलावण्यस्य महती प्रशंसा कृता । अतस्तान् मन्त्रिण आकार्य प्रष्टव्यम्-तैर्दृष्ट्वाऽदृष्ट्वा वा तत्प्रशंसा कृता, यतस्तस्याऽयं रोगः पुरातन इव ज्ञातो भवति, तस्मादस्माकमत्र विषयेऽवश्यं परीक्षा कर्तव्या । एतच्छ्रुत्वा राजा तमुवाच- करस्थकङ्कणस्याऽऽदर्शेन किम् ? अस्य परीक्षा सम्प्रत्येव भवितुमर्हति । तानधुनैवाऽऽकार्याऽशेषं समाचारं पृच्छतु । तदैव सुबुद्धिनाऽऽहूतास्ते राज्ञा पृष्टाः- विवाहनिश्चयार्थं तत्र गतैर्भवद्भिः कुमारो दृष्टो न वा ? सम्प्रत्यहं यथार्थं श्रोतुमिच्छामि, यदि भवन्तो मिथ्याऽऽभाष्य मच्छलनाय चेष्टिष्यन्ते, तदा तन्निमित्तं कठोरादपि कठोरं दण्डं दास्यामि ।
-
यतः
अहो ! अहीनामपि खेलनेभ्यो दुःखानि दूरं नृपसेवनानि । एकोऽहिना मृत्युमुपैति दष्टः सपुत्रपौत्रस्तु नृपेण दष्टः ॥२८॥
राज्ञो भाषितं श्रुत्वैव विच्छायमुखास्ते परस्परं मुखाऽवलोकनं कर्तुं लग्नाः । राजा यं यमपश्यत्स एव प्रथमं तं पृच्छत्विति नेत्रसंकेतं कुर्वन्नासीत् । सुबुद्धिना तेषां तदवस्थां विलोक्य राज्ञः कर्णे प्रोक्तम् - राजन् ! मम तु सर्वं कपटमयं प्रतिभाति, एते
।। १३० ।।