________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः
राजकुमारीप्रेमलाया मृत्युदण्डः
यतःशल्यवह्निविषादीनां, सुकरैव प्रतिक्रिया । सहसा कृतकार्योत्था-अनुतापस्य तु नौषधम् ॥२६॥
येन भवतः सुयशोवृद्धिर्भविष्येच्च पश्चात्तापोऽपि न कर्तव्यो भवेत्, तदेव ममाऽन्तिमं निवेदनमस्ति । तस्यास्तत्कथनं श्रुत्वा सचिवेन भणितम्- स्वामिन ! राजपुत्र्याः कथनमक्षरशो मेऽतीव सत्यं प्रतीयते यथार्थतोऽयं कुष्ठी नाऽस्याः पतिः । ततः सम्प्रत्येनां निर्दोषां कुमारी राजमन्दिरनिवासायाऽऽज्ञापय, एकं च भृत्यमाभानगरी प्रेष्य राजानं चन्द्रं शोधयित्वा तस्मिन मिलितेऽखिले वृत्तान्ते पृष्टे चाऽनायासेन तद्रहस्यज्ञानं भविष्यति । तद्ज्ञानं विनाऽस्यै दण्डदानं महदनुचितं सदाचारविरुद्धं च भविष्यति । अत उक्तम् - दुःखं वरं चैव वरं च भैक्ष्यं, वरं च मौख्यं हि वरं रुजोऽपि। मृत्युः प्रवासोऽपि वरं नराणां, परं सदाचारविलङ्घनं नो ॥२७॥
ततो राज्ञोक्तं-एतत्कथनश्रवणेनाऽस्माभिः सह तैः सिंहलेशादिकैः कपटः कृत इति ज्ञायते, तथाऽप्येनां स्वगृहे रक्षितुं नाहमुत्सहेऽतो रहस्यप्राप्तिपर्यन्तं त्वमेव स्वगृहे रक्ष । एतदाकर्ण्यमन्त्री तां स्वाऽऽवसथमानिनाय, ततो भोजनादिकं कारयित्वा शान्तायां तस्यां मन्त्रिणोक्तम्-पश्य पुत्रि ! यस्य रक्षितेवरो भवति, तस्य कोऽपि किमपि कर्तुं नाऽर्हति । गता तेऽशुभवेलाऽतःपरं तु मङ्गलमयप्रभोर्दयया सर्व मङ्गलमेव भविष्यति । अहं ते पत्युः शोधनं कारयित्वा महाराजस्याऽप्रसन्नतां शीघ्रमेवाऽपसारयि
|| १२६ ।।