________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः ___राजकुमारीप्रेमलाया मृत्युदण्डः तोऽभूदिति सम्प्रति तस्याऽऽभाधीशत्वे मे मनागपि सन्देहो नाऽस्ति। तद्वचसि प्रचुर माधुर्यं लावण्येन च स कामतुल्यः, अयं तु कुष्ठी काकवदस्ति, क्व स देवकुमारः क्व चाऽयं प्रेतबन्धुः ? पितः ! यदा वयं तत उत्थाय तदावासमगच्छाम, तदा स बहुशो बहिर्गमनाय कृतचेष्टो मया वारितः । क्षणान्तरे तत्र समागतस्य हिंसकमन्त्रिणो जल्पनं निशम्यैकत्रैककोणे स्थितां मां विलोक्याऽऽभापतिहिंसकमन्त्रिसङ्केतात्ततस्त्वरितमेव निरगच्छत् । तेन सहैव कृतबहिर्निर्गमनचेष्टापि हिंसकमन्त्रिणा रुद्धाऽहं यदि तदानीं लज्जागर्ते न पतेयं तींदानीमियं घटना कदापि नो घटेत । अस्तु, तदग्रेऽयं कुष्ठी पतिभवनकामनया ममाऽन्तिकमागतो विविधां वार्ता विरचयितुं लग्नः । यदा तद्वचस्तिरस्कृतं मया तदा धात्र्याऽऽगत्य कोलाहलः कृतः, समे चैकीभूय जना मां विषकन्येयमिति जल्पितुं लग्नाः । स कनकध्वजस्तु पूर्वत एव कुष्ठ्यासीदित्येतैः पूर्वस्मादेव षड्यन्त्रो रचित इति मन्ये । पितः ! एतत्सर्वमक्षरशोऽहं सत्यं वदामि- अहं त्वेनं कुष्ठिनं विवाहकरमोचनावसरेऽपि नैवाऽद्राक्षं मम पतिस्त्वाभापुर्यधीशोऽस्ति, सिंहलनरेशेन भवान्प्रच्छलितोऽहं च व्यर्थं दुःखिनी कृता, अतःपरमपि श्रीमतो विश्वासो न भवेत्तदा यदिच्छसि तत्कर्तुमर्हसि यतो दुहितुर्भाग्यं तु पितुः करे तिष्ठति। भवान् यदाज्ञापयिष्यति तदेव मया कार्यं भविष्यति, परमेतेषां धूर्तानां वचसि भवता विश्वासो न कार्यः । मम तु कथनमात्रमुपायोऽस्ति, यदि भवान् मयि कोपं करिष्यति, मदुक्तौ च न श्रद्धास्यति, तदा भवति मम किञ्चिद् बलं नाऽस्ति । अपितु यत्करणीयं तद्विचार्यैवेति भवन्तं प्रति ममाऽनुरोधोऽस्ति ।
|| १२८ ॥