________________
चन्द्रराजचरित्रम् द्वादशः परिच्छेदः
राजकुमारीप्रेमलाया मृत्युदण्डः
आपद्गता निष्करुणा भवन्ति, आर्त्ता नरा धर्मपरा भवन्ति ॥ २५ ॥
-
.
मम परिणयसम्बन्धे या घटना घटिता तस्या निखिलं वृत्तं यदा श्रोष्यसि तदा भवतो मम निर्दोषतायामवश्यं विश्वास उत्पत्स्यते । यद्यपीमां वार्तां कथयन्त्या मे महती त्रपा भवति, तथाऽप्यशक्यत्वादस्यास्तत्त्वस्फोटनं यदि न कुर्यां तदा तत्फलं मयैव भोक्तव्यं भवेत् । पितः ! शृणु सर्वप्रथमं भवन्तमिदमेव गदितुमिच्छामि तत्र रात्रौ येन सह ममोद्वाहोऽभूत्, यस्मै च भवता हस्त्यञ्चादीनां प्रदानं कृतं, सोऽयं वरो नैव स त्वाभाधीशो राजा चन्द्र एवासीत्, तद्द्वार्तया मे यद् विदितमभूत्तयैवाऽहं कथयितुं शक्नोमि यच्चन्द्राग्रे एते सर्वथाऽगण्याः सन्ति । अत्र मदुक्तावसत्यलेशोऽपि नाऽस्ति यदि तत्र किञ्चिदप्यसत्यं संभवेत्तदा मे तदेव मृत्युदण्डं दातुमर्हसि यदेकस्मै चौराय दीयते । तन्निशम्य मध्ये मन्त्रिणोक्तम्- हे राजकुमारि ! तव पतिराभानरेशोऽस्तीति भेदस्त्वया कथमज्ञायि ? त्वत्सन्निधौ तस्य किं प्रमाणमस्ति ? एतत्सर्वं पितुरग्रे त्वया स्पष्टतया प्रकाशनीयम् ।
तन्निशम्य किञ्चिल्लज्जमाना सोवाच - पितः ! यदा वयं विवाहान्तेऽक्षक्रीडां कुर्वाणा आस्म, तदा तेनाऽनेकशस्तथोक्तं येन मे तद्विषये संशय उत्पन्नः, पश्चात्तद्ध्यायन्त्या मयाऽऽभानरेशोऽयमिति निश्चितम् । पुनरक्षदेवनकाले तेनाऽऽभानगर्याः सौन्दर्यस्य तत्प्रान्तस्य च बहुशः प्रशंसा कृता, तदा तद्वचः श्रुत्वाऽहं चकिताऽभवम्, परं सिंहलपुर्या वर्णनमकृत्वाऽऽभानगर्या वर्णनं कथं क्रियते ? तन्नाऽहमबोधिषम् । इत्थमेवाऽशनार्थं समुपविष्टेन तेनाऽन्यान्यपि वचनान्युक्तानि, यैस्तस्याऽऽभानगर्या सह घनिष्ठः सम्बन्धो विदि
।। १२७ ।।