________________
चन्द्रराजचरित्रम् द्वादशः परिच्छेदः
यतः
राजकुमारीप्रेमलाया मृत्युदण्डः
सगुणमपगुणं वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः
॥२३॥
आदित एवाऽहं भवते न्यवेदयम् - वैदेशिकानां विश्वासः
कदापि नो कर्त्तव्यः ।
यतः
अज्ञातकुलशीलानां, धूर्तवेश्याविदेशिनाम् । विधासो नैव कर्तव्यो, विधासाद्वञ्चयन्ति ते
॥२४॥ यदि भवान् तां विषकन्यां मत्वा तन्मुखावलोकनं पापं मन्यते, तदा तां यमनिकायां समुपवेश्य तत्कथनं श्रोतुमर्हसि । मनुष्यताया न्याय्यत्वाच्च ममेमां प्रार्थनां सम्यक् स्वीकृत्य तत्कथनमेकवारमवश्यं श्रोतव्यमित्येव श्रीमन्तं प्रति ममाऽनुरोधोऽस्ति । राज्ञा मन्त्रिणोऽनुरोधोऽस्मिन् विषये स्वीकार्य एवाऽभूत् । तस्य तन्मुखावलोकनेच्छा नाऽऽसीदतो मन्त्रिणा प्रतिसीराव्यवस्था कारिता । तदैव वधस्थानादानाय्य सा तत्रोपवेशिता । ततः सचिवेन स्ववृत्तान्तं निवेदयितुमाज्ञप्ता सा मुदिता सती नम्रतया समं निखिलं वृत्तान्तं निवेदयितुं लग्ना- पूज्यपितः ! अहं भवदग्रे स्तोकमपि शब्दमसत्यं न वदिष्यामि ।
यतः
सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति शीलम् ।
।। १२६ ।।