________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः अतोऽत्र किमपि रहस्यमस्तीति तर्कयद्भिस्तैः पृष्टम्- हे राजपुत्रि! अग्रे मृत्युं दृष्ट्वाऽपि कथमिदं ते हास्यम् ? श्रुत्वैतत्तयोक्तम्अरे भ्रातरः ! अत्र ममास्य हासस्य कारणे कथितेऽपि को लाभः? हुं यदि महाराजेन पृष्टं भवेत्तदा वक्तव्यमासीत्परं तेन तु न पृष्टं न च मे भाषितं श्रुतं, अपितु जनानां मिथ्याभाषणमाकयुव स भ्रमे पतितः, एतदर्थमेव मे हास्यमायाति । यदिदानीमपि स श्रोतुमिच्छेत्तदाऽहं समस्तं तथ्यं कथयितुं शक्नोमि, तच्छ्रुत्वाऽवश्यं तन्नेत्रे उन्मीलिष्यतः । विदितवार्तास्ते घातकाः स्वान्ते चिन्तयामासुःराजकुमार्या एतदखिलं वृत्तं राज्ञे निवेदितव्यम्, अन्यथा रुष्टो राजा मह्यमुक्तवृत्तं कथं न निवेदितमिति वदेत्तदाऽस्माकमनिष्टं भवेदिति विचिन्त्य तद्रक्षार्थमेकं नरं नियुज्याऽपरे सुबुद्धिमन्त्रिणमुपेत्याऽशेषमुदन्तं तस्मा अवोचन् । प्रान्ते तैरुक्तम्- राजकुमारी सर्वथा निरपराधैव प्रतीयते, अत सकृत् तदुक्तिरवश्यं राज्ञे श्राव्या, राजानमन्तरेण केभ्योऽपि सा निवेदयितुं नेच्छति । तयैवमुक्तमस्ति मद्वचसि श्रुते सकलरहस्यज्ञो राजा भविष्यति, ततो भवानुपराजं गत्वा तवृत्तान्तश्रवणाय तमनुरञ्जयतु, पुनर्यादृशी तदिच्छा । तदानीमेव राजसमीपमागतेन मन्त्रिणा राजोक्तःराजन् ! कुमारी स्वान्तिमसमये भवते किमपि निवेदयितुमिच्छति। तत्कथनं सत्यमसत्यं वोचितमनुचितं वैकवारमवश्यमेव श्रोतव्यं, नीतिरप्येवमेव वावदीति-सामान्यापराधिने स्वनिर्दोषतां प्रमाणीकर्तुमवसरो दीयते, पुनरियं तु भवतः प्रियपुत्री यद्यत्र किमप्यनुचितं कार्य भविष्यति, तदा जगति सहाऽप्रतिष्ठया भवतः पश्चात्तापोऽति भविष्यति ।
|| १२५ ।।