________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः स्थिरे, तेनाऽखिले नगरे महान् हाहाकारः संजातः । गते श्मशाने बद्धाञ्जलिभिर्घातुकैः प्रेमला प्रोचे- हे राजकुमारि ! पित्रा ते वधायादिष्टैरस्माभिस्तदाज्ञाऽवश्यं पालनीया भविष्यति, अतोऽस्माकं जीवनं व्यवसायं च धिक् ! यदि वयमेतत्कार्यं न कुर्याम तदाऽद्यैतत्पापं किं कर्तव्यं भवेत् ? पूर्वजन्मार्जितपापेनैवेदानीमस्माकमीदृशं गर्हितं कर्म कर्तव्यं भवति । अतोऽनेन कर्मणा जन्मान्तरेऽपि नरकादौ पक्तव्यं भविष्यत्यस्माकम् । यतःजठराग्निः पचत्यन्नं, फलं कालेन पच्यते । कुमवैः पच्यते राजा, पापी पापेन पच्यते ॥२१॥ किञ्चपुरुषः कुरुते पापं, बन्धुनिमित्तं वपुर्निमित्तं वा । वेदयते तत्सर्वं, नरकादौ पुनरसावेकः
॥२२॥ उदर एव पापकारणं, अयमेव निखिलं पापं कारयति । हे राजकुमारि ! एतदर्थं क्षन्तव्या वयं, अतःपरं स्वेष्टदेवतां स्मृत्वा स्वकर्तव्यपालनायाऽस्मानाज्ञापय | वीरपुत्रीत्वाद् सौनिकानां वचो निशम्य तदसिं च विलोक्य सा मनागपि भीता नाऽभूत् । तद्घटनार्थं च श्वशुरादीनामेव दोषोऽमन्यत न पत्युः, अतः स्वकर्म निर्भर्त्सयन्ती सा घातुकोक्तं श्रुत्वैव किलकिलाशब्देन हसन्ती तान् स्वकर्तव्यपालनायाऽऽदिदेश ।
एतत्तस्या धैर्यं विलोक्य साश्चर्यास्ते घातुका मनसि चिन्तयामासुः- अहो ! किमिदं वृत्तम् ? यन्मरणकालेऽपीयं हसति,
।। १२४ ।।