________________
चन्द्रराजचरित्रम् द्वादशः परिच्छेदः
राजकुमारीप्रेमलाया मृत्युदण्डः
वृणते हि विमृश्य कारिणं, गुणलुब्धाः स्वयमेव संपदः ॥१९॥
तदैव प्रेमला मातुः सकाशमागता परं पूर्ववृत्तान्तश्रवणेन विषकन्येयमिति विश्वस्तया मात्रा सा किमपि न पृष्टा, का कथा सत्कारादिप्रेमकुशलप्रश्नानां ? यतो 'वामे विधौ भवति विश्वमिदं च वामं तदैव चाण्डालानाह्वाय प्रेमलां श्मशाने नीत्वाऽस्याः शीर्षच्छेदं कुरुत, इति राज्ञाऽऽदिष्टास्ते त्वरितं तां निगृह्य चलिताः । एतद्विलोक्य किञ्चिद्वक्तुमप्यक्षमास्तत्रत्या जना आश्चर्यमीयुः । तदनन्तरं पुनर्बहुधा मन्त्रिणा बोधितेऽपि तत्फलं किमपि न जातम्। इतश्च ते घातुकाः प्रेमलां सह नीत्वा यदा ग्रामचतुष्पथे जग्मिवांसस्तदा ज्ञातवार्ताः पौरमहेभ्यास्तान् घातुकान् श्मशानगमनान्निवार्य प्रेमलया सत्रा सर्वान् राजसमीपमानीय राजानं जगदुः- राजन् ! अनुचितादस्मात्क्रोधाद्विरम |
-
यतः
न भवति स भवति न चिरं, भवति चिरं चेत्फले विसंवादी । कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम्
॥२०॥
जामातुर्जायमाने कुष्ठेऽस्याः कोऽपराधस्तदस्माकं प्रार्थनामङ्गीकृत्य राजपुत्रीं जीवदानेनाऽनुगृहणीष्व । सुशीलां दुःशीलां वा पुत्रीं पिता क्षमत एव । वैदेशिकानां दुर्जनानां वा वचः प्रमाणीकृत्येत्थमनर्थो न कार्यः । एवं बहुकथितेऽपि तत्क्रोधाऽहिविषस्तथा चटितो यथा किञ्चिदपि नोत्ततार, निराशाश्च श्रेष्ठिनो निजं निजं निकेतनमाजग्मुः । झटित्येनां जहि, अस्या मुखमप्यवलोकितुं नेच्छामीति राज्ञाऽऽज्ञप्तास्ते चाण्डालाः सहैव तया श्मशानमभिप्रत
।। १२३ ।।