________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः नेत्राभ्यामश्रुधारा प्रपतति स्म । तदानीमेवाऽसिमाकृष्य तां हन्तुमागतं मकरध्वजं पुत्रीपितरं जामाता कनकध्वजकुमारः सविनयमुवाचपूज्यश्वशुर ! इत्थं क्रोधं न कुरुतामत्र नाऽस्या दोषो न च मे पित्रोः, सकलोऽपि दोषो ममैव पूर्वकर्मणोऽस्ति । यतःसुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा। पुराकृतं कर्म तदेव भुज्यते, शरीरहेतोस्त्वया त्वया कृतम्॥१८॥
अतो भवान् स्त्रीहत्यापातकं स्वशिरसि न गृह्णातु | कुमारकनकध्वजस्याऽनेन वचसा शान्तो राजा मकरध्वजस्तं प्रोवाचभवत्कथनेनैव सम्प्रत्येनां मुञ्चामि, अन्यथेदानीमेव हन्याम् ।
अनया विडम्बनया राज्ञो मकरध्वजस्य चेतः परं चेखिद्यते स्म । अस्मिन्नेव विचारे मग्नेन राजभवनमागतेन तेन तदैवाऽऽहूतः सुबुद्धिनामा स्वमन्त्री कथितः, श्रुतसकलवृत्तान्तेन तेन भणितम्राजन् ! ईदृशीं स्नेहलां पुत्रीं कथमभिक्रुध्यसि ? अहमपि वरं दृष्ट्वाऽऽगतस्तस्याऽयं रोगो न साम्प्रतिकः किन्तु सहज एवेति दृश्यते, यतोऽस्य वपुषो दुर्वासना तथा निःसरति, यथा न तात्कालिकीति, सर्वं प्रपञ्चजालमिव मे प्रतिभाति । तेनेत्थं कथितेऽपि तत्क्रोधानलो न शशाम, एवं प्रतिबोधितेऽप्यतुष्टे राजनि पुनः सचिवेनोक्तम्- यद्रोचते श्रीमते तत्क्रियतां परं प्रान्ते पश्चात्ताप एव भवताऽऽलम्बनीयो भविष्यति । अत उक्तम्सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् ।
।। १२२ ।।
।