________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः त्वं मे पतिरसि | स्वपतिं सम्यग् जानामि त्वं तु कुतोऽपि मृषा मे गले पतनायाऽऽगतोऽसि, परं परकीया स्त्री स्वकीया भवितुं नाऽर्हति, तवाऽनयाऽज्ञानतया त्वयि मे दयोत्पद्यते । कुष्ठिनि सत्यपि त्वं गुप्ताऽऽवासे कथं रक्षितः ? अहो ! श्लाघ्यतमं ते सौन्दर्यम्, अतो बहिनिःसरणेनाऽवश्यं त्वयि कस्यचिद्दुदृष्टिपतनशङ्काऽऽसीत् । गच्छाऽधुना तूष्णीं गमनेनैव ते कल्याणमस्ति । कपीनां मुक्ताहारपरिधानस्य वाञ्छा न कर्तव्या, चास्मिन् पर्य चारूपवेशमात्रेणैव त्वं मे पतिर्न भविष्यसि । देवमन्दिरस्य कलशोपवेशनेन काकः किं खगेश्वरो भवति ? | यतःगुणैरुत्तुङ्गतां याति, नोच्वैरासनसंस्थितः । सुमेरुशिखरस्थोऽपि, काकः किं गरुडायते ? ॥१४॥
त्वं मे करं गृहीत्वा मां स्वपत्नी कर्तुमिच्छसि, परं पूर्व मुकुरे स्वास्यप्रशंसनीयं लोकगर्हितं च स्वमुखं तु पश्य ।
यदेत्थं वादविवादो भवन्नासीत्तदैव तत्राऽऽगता कपिलानाम्नी तस्योपजननी प्रोवाच- प्रियवधु ! दूरे कथं तिष्ठसि ? अयं ते पतिरनेन सहाऽऽस्स्व, दम्पतीप्रेमप्रवर्धकं वार्तालापं कुरु, यथेष्टं सानन्दं सुखेन रमस्व, मया सह किमपि गोपनीयं च नाऽस्ति । किं त्वं कथयसि ? किमयं ते पतिर्नाऽस्ति ? संजाते विवाहे मुखादेवं वचः पतिव्रतया किं क्वाऽपि निःसार्यते ? |
यतः
पतिर्देवो हि नारीणां, पतिर्बन्धुः पतिर्गतिः ।
|| ११६ ।।