________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः राजकुमारीप्रेमलाया मृत्युदण्डः तेनोक्तम्- अयि प्रिये ? एतावत्येव समये त्वयाऽहं विस्मृतः किम् ? किं स्वपतिमपि काचित्कुलाङ्गनैवं विस्मरति ? अद्यप्रभृत्येवैवं करिष्यसि, तदाऽग्रे किं भविष्यति ? सुरूपायां सत्यामपि त्वयि ज्ञानलेशो न ज्ञायते, यतः सति ज्ञाने स्वपतिं का स्त्री विस्मरति ? इत्थं वदन्नन्तरागतः स मच्चे समास्त । तथा दृष्ट्वा प्रेमला व्याघ्रदर्शनेन गौरिवैकत्र कोणे तस्थौ । यतो यथोत्तमानि पुष्पाणि शिरस्यारोहन्ति वने वा पतन्ति, तथैव पतिव्रतानामपि वपुषो द्वे गती भवतः- तस्य स्पर्श पतिः करोति वाग्निः । उक्तं चगतियुगमथ चाप्नोत्यत्र पुष्पं वरिष्ठं, त्रिनयनतनुपूजां वान्यथा भूमिपातम् । विमलकुलभवानामङ्गनानां शरीरं, पतिकरकमलं या सेवते सप्तजिह्यम्
॥१३॥ इत्थं दूरवर्तिनी प्रेमलां वीक्ष्य कनकध्वजेनोक्तम्- प्रिये ! इयडूरे कथमास्से ? अत्राऽऽगच्छोपविश विषयभोगविलासं च कुरु, अयमवसरो वारम्वारमागमिष्यति किम् ? शीघ्रगामिनोऽस्य यौवनस्य गमने कालो न लगिष्यति । अद्य प्रथमसमागम एवेदृशो वियोगः कथं क्रियते ? त्वं सौराष्ट्राऽधीशस्याऽऽत्मजाऽहं च सिंहलाऽधीशस्य कुमारोऽस्मि । ईदृग्योगस्तु द्वयोः पुण्योदयात्प्रसन्न एव विधातरि सञ्जातः । एवं प्रजल्पन् स प्रेमलासन्निधिं गत्वा स्थितो यावत्तस्याः पाणिग्रहणायाऽचेष्टत्, तावदेव सोच्चैरुवाचअरे पापिन् ! दूरे तिष्ठ, सम्प्रति ते सकलभेदो मया ज्ञातः, न च
|| ११८ ।।