________________
चन्द्रराजचरित्रम् - द्वादशः परिच्छेदः
राजकुमारीप्रेमलाया मृत्युदण्डः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
द्वादशपरिच्छेदे राजकुमारीप्रेमलाया मृत्युदण्डःविमलापुर्या आभापुरीमागते राज्ञि चन्द्रे किं किमभूत्तस्य विमाता कथं वा तं मनुष्यात्कुक्कुटं व्यरचयत्तत्सर्वं गतपरिच्छेदे निर्दिष्टम् ।
__तदनन्तरं प्रेमलालच्छ्याः किमभूत्सा च कथं लाञ्छिताऽपमानिता बभूव, तदपि पाठकपरिचयाय लिख्यते- हिंसकमन्त्रिणि समागते कटुशब्दे प्रयुक्ते च राजा चन्द्रो यदा प्रेमलां परित्यज्य बहिरागतस्तदा तयाऽपि बहिरागमनचेष्टा कृता, परं हिंसकमन्त्रिणा तदैव वारिता सा तस्मिन् भृशं क्रुद्धाऽपि नववधूतया किमपि वक्तुं न शशाक | बहुकालं पत्युरागमनं प्रतीक्षमाणा सा बहुतरे काले गते यदा स नाऽऽगतस्तदा मन्त्रिणा कपटः कृतोऽस्ति, येन मम प्राणनाथो मां त्यक्त्वा क्वापि गतोऽस्तीति मन्त्रिणः कपटं विवेद । अनया विडम्बनया चेखिद्यमाना सा भविष्यं शोचन्त्यासीत्तदानीमेव हिंसकमन्त्रिणा शिक्षितः कुमारकनकध्वजस्तत्सन्निधौ प्रेषितः । दूरादेवाऽऽयान्तं तं वीक्ष्य पूर्वमयं मे पतिदेव एवाऽऽगच्छतीति धिया तत्स्वागतार्थं सम्मुखमेत्य स्थिताऽपि सा समीपमागते कनकध्वजे ज्ञाताऽन्यपुरुषा सती दूरं गता | पश्चात्तयोक्तम्-को भवान् किमर्थं चाऽत्राऽऽगच्छन्नस्ति ? इतः शीघ्रं गच्छतु, अन्यथा द्वारपालो भवतोऽपमानं करिष्यति । स्मयमानेन
|| ११७ ।।