________________
चन्द्रराजचरित्रम् - एकादशः परिच्छेदः
वीरमत्या नीचताः दन्तैरुच्चलितं धिया तरलितं पाण्यघ्रिणा कम्पितं, दृग्भ्यां कुड्मलितं बलेन गलितं रूपश्रिया प्रोषितम् । प्राप्तायां यमभूपतेरिह महाधाट्यां धरायामियमाशा केवलमेकिकैय सुभटी हृत्पत्तने नृत्यति ॥१०॥
एवमाशाश्रिताया अपि तस्याः पतिमन्तरा सर्वं जगत् शून्य प्रतिभाति स्म । तथा नीतिशास्त्रेऽपि कथितमस्तियतःचन्द्रं विना भाति यथा न रात्रि-वेदैविहीना किल विप्रजातिः। सुदतहीनो न च कुञ्जरोऽपि, पत्युर्विहीना कुलजाऽपि लोक॥११॥ अपि चशस्त्रैर्विना स्याद्धि यथेह वीरः, सामन्तशून्यः पृथिवीपतिश्च । विद्युद्विहीनाऽभ्रघटा तथैव, पत्युर्विना शून्यतमा च नारी॥१२॥
अतस्तस्यै भूषणभोजनादिकमपि न व्यरोचत, पुनरपि कदाचिद्वीरमती गुणावलीं कुत्राऽपि गमनाय कथितवती, तदा तस्याः प्रसादाय तया सह गतासीत् । समये समये वीरमती तामाम्रवृक्ष आरोह्य दूरदेशान्तरं गत्वाऽपूर्वं कौतुकं दर्शितवती । अनिच्छयाऽपि वीरमतीभयात्तन्मनोऽनुरञ्जयन्ती सातिप्रेमवशेन पत्युः सकटच्छिदं धर्मव्रतादिकमपि विधातुं लग्ना ।
|| ११६ ।।