________________
चन्द्रराजचरित्रम् - एकादशः परिच्छेदः
वीरमत्या नीचता सम्यग् विविदुः । पश्यतामेव तेषां तत्र जनताऽऽजगाम, सर्वेऽतिश्रद्धया तं कुक्कुट प्रणेमुः । परितो विविधा वार्ता प्रसृता, सर्वे चन्द्रस्य प्रशंसां वीरमत्याश्च निन्दां कृतवन्त आसन् । शीघ्रमेव ज्ञातवार्ता धावमाना वीरमती गुणावलीमुपेयाय, आयान्त्येव तां सोपालम्भं जगाद- रे धृष्टे ! अद्य कं कौतुकं कर्तुमत्रोपविष्टाऽसि? अयं गवाक्षे कथमुपवेशितः ? यद्यस्य जीवनमिच्छसि, तीदानीमेवैनं नीत्वाऽन्तर्याहि, किं गुप्तं गृहवृत्तान्तमेवं प्रकटीक्रियते ? | उक्तमपिआयुर्वितं गृहच्छिद्रं, मत्रमैथुनभैषजम् । तपोदानापमानश्च, नव गोप्यानि यत्नतः
॥९॥ ___ अद्य तवेदमागः सहे पुनः करिष्यसि चेन्नो सक्ष्ये । त्वयाऽवगता भवेद, यदेनं नीत्वा बहिरुपवेशनेन मातुनिन्दा भविष्यति, किन्तु नाऽहं तया निन्दया बिभेमि । यतो दावाऽगिर्गण्डूषजलेन निर्वाणत्वमेति किम् ? तवाऽनेन कार्येणाऽयं मनुष्यत्वं प्राप्तुं नाऽर्हति। अयं तवाऽतिप्रियश्चेत्तदाऽस्मै भूषणमुत्तमभोजनं च दातुमर्हसि, तत्र नाऽहं बाधिष्ये । किन्त्वेवं पुनः करिष्यसि, तदा तवाऽपीयमेव दशा भविष्यति, या ते पत्युरस्ति । शूलायमानेन वीरमत्या भाषितेनाऽतिदूयमानाऽश्रुधारां मुञ्चन्ती सा तदानीमेव तत उत्थायाऽन्तर्गत्वा बहुरोदनेन शान्तिमाप । अथ कदाचिदपि पुनस्तत्र गवाक्षे नागता। निःसहाया सा पत्युः पुनर्मनुष्यत्वप्राप्त्याशयैव जीवितं दधत्यासीद्यत आशयैव पुत्रकलत्रबन्धुनिमित्तमनुचितमपि कर्म समारभन्ते सर्वे जीवास्तत आशैव सर्वाञ्जीवयतीति तत्त्वम्यतः
|| ११५ ।।