________________
चन्द्रराजचरित्रम् - एकादशः परिच्छेदः
वीरमत्या नीचता
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्यैकादशपरिच्छेदे वीरमत्या नीचता
अथ प्राकृतकुक्कुटवत्प्रातरुत्थाय रुतवतस्तस्य रावण विबुद्धा साश्रुनेत्रा विदीर्णहृदया सा तमङ्के कृत्वा कथयति स्मप्रिय ! ताम्रचूडवद्वल्गने प्रायो भवतः कष्टं न पतितं भवेत् ? मया त्वयं शब्दो वज्रादपि कठिनो ज्ञायते । पूर्वं प्रगे कुक्कुटरुते निद्राव्याघातात्तस्मै भवान कुप्यते स्म, इदानीं तु भवानपि दुर्दैवेन तथैव कृतोऽस्ति । भवत इमं शब्दं श्रुत्वा भवन्माता प्रसन्ना भविष्यति, परं मामयं शब्दो नितरां दुनोति, अतः प्राणेश ! भृशमेवं नो वक्तव्यम् । गुणावल्या वचः पूर्ववज्ज्ञातेऽपि तस्मिन् खगत्वान्मनुष्यवाचां शक्तिर्नाऽऽसीदतस्तदुत्तरं दातुं स नाऽशकत्।
__ अथैकदा नागरिकचा श्रोतुं कुक्कुटोपरि जनानां दृष्टिश्च यथा पतेदिति धिया सपिञ्जरं तं नीत्वा सा गवाक्षमेत्योपविष्टा । इतश्च नगरे चन्द्रस्याऽनुपस्थित्या महान् हाहाकारो बभूव, तत्रोपविष्टाभ्यां ताभ्यां मिथो वदतां केषाञ्चिदियमुक्तिः श्रुताभ्रातरः ! चिराद्राजा कथं न दृश्यते ? तेन विनेयं नगरी निश्चन्द्रा शर्वरीव हतश्रीलक्ष्यते। एवं श्रुत्वा कैश्चनोचे- बत ! त्वया किं न ज्ञातं यन्मात्रा स कुक्कुटः कृतोऽस्ति ? अतःपरमस्माकं तद्भाग्यं कुत्र ? येन तदर्शनं कुर्वीमहि । तेषामिमामुक्तिं श्रुत्वा मिथो विलोक्योभयोरश्रुधारा प्रवहति स्म । तदैवाऽभिगवाक्षं प्रेक्षमाणाः केचन तत्र स्वर्णपिञ्जरे कृकवाकुं दृष्ट्वाऽयमेव चन्द्रोऽस्तीति
|| ११४ ।।