________________
चन्द्रराजचरित्रम् - दशमः परिच्छेदः मानवजीवनतः कुक्कुटभवनम् जीवाः कर्माऽनुगा भवन्ति, यतः कर्मणां गतिर्न केनाऽपि त्याज्यते। यतःप्रचलति यदि मेरुः शीततां याति यह्निरुदयति यदि भानुः पश्चिमायां दिशायाम् । विकसति यदि पद्मं पर्वताये शिलायां, तदपि न चलतीयं भाविनी कमरेखा
દા __सञ्चितकर्मणां भोगादेव क्षयो भवति न तु केषाञ्चिदपि भोगं विनेत्थमेव धर्मशास्त्रेऽप्युक्तम्यतःयद्वज्रमयदेहास्ते, शलाकाः पुरुषा अपि । न मुच्यन्ते विना भोगं, स्वनिकाचितकर्मणः ॥७॥
अतः शोकं परिहृत्य धर्माऽऽराधने त्वया चित्तं निवेशनीयं, येन ते कल्याणं भविष्यति । यतःसुचिरमपि उषित्वा स्यात्वियैर्विप्रयोगः, सुचिमपि चरित्या नास्ति भोगेषु तृप्तिः । सुचिरमपि हि पुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यं त्राणमेको हि धर्मः રા
___ अयमेव ममोपदेशोऽस्ति, एवं तामुपदिश्य गते मुनौ मनोवाक्कायेन धर्ममाचरन्ती स्वकुकृत्येन पश्चात्तापवती सा गुणावली दानाद्यतिथिसत्कृतौ तत्परा बभूव । इत्थं धर्माऽऽचरणं कुक्कुटरक्षणं च तस्या नित्यकर्म जातम् ।
|| ११३ ।।