________________
मानवजीवनतः कुक्कुटभवनम्
चन्द्रराजचरित्रम् - दशमः परिच्छेदः यथा
प्रायोवृत्त्या विपदः, परिहृत्याऽवस्तु वस्तुनि भवन्ति । नहि कोद्रयेषु कीटाः पतन्ति गोधूमकायेषु
पूनाघ अतश्चिन्तां परित्यज्य प्रभोः स्मरणं कुरु, मङ्गलमयेन तेन स्मरणेन सर्व भद्रं भविष्यति । इत्थं चरणायुधं समाचासयन्ती स्वयमपि स्वस्था सा कदाचित् क्वाऽपि गता सती तस्य पक्षशब्दं श्रुत्वाऽरं तत्राऽऽगता | इत्थं कुक्कुटत्वमापन्नेऽपि तस्मिन्पतिप्रेमपरायणा सा तस्य सुखाय परं प्रबन्धं कृतवती तयोरेवं कालो गच्छति स्म । अथैकदा गोचर्यर्थं कस्यचित्साधोस्तत्रागमनं जातं तं विलोक्य प्रमुदितया तया बहुमानं तोषितस्य मुनेदृष्टिः कुक्कुटोपर्य्यपतत्तं दृष्ट्वा तेनोचे- अयि भद्रे ! अनेन वराकेन ते किमागः कृतं ? येनाऽयं त्वया गृह्यकः कृतोऽस्मै स्वर्णपिञ्जरमपि दुःखप्रदमेव भवति । किञ्चाऽस्य हिंस्रस्य मुखं दृष्ट्वोत्थानमपि पापायेति ज्ञात्वाऽपि कथं तत्संग्रहः क्रियते ? मुनेाहृतं निशम्य तयोक्तम्गुरुदेव ! नाऽयं सामान्यकुक्कुट: किन्त्वयमाभानरेशोऽतिधार्मिकः पृथ्वीशो मे पतिरस्ति, क्रुद्ध्वा राजमात्राऽस्येयमवस्था कृता । गुरुत्वान्निष्फलत्वाच्चैतद् वृत्तं वक्तुमसमर्था पूर्वजन्मकृतघोरपातकस्य फलं भुञ्जानाऽस्मि । गुरुदेव ! अत एवैनं पिञ्जरे रक्षामि, सामान्यखगो भवेत्तदा भवद्वचसाऽवश्यं मुचेयम् । एतच्छ्रत्वा मुनिराह- राज्ञि ! एतवृत्तान्तमजानता मयाऽयमुपदेशः कृतः, वीरमत्यैतदनुचितमेव कर्म कृतमस्ति । चन्द्रस्तु चन्द्र एवासीत्तस्येदृशी दशा न कर्तव्यासीत् । अस्तु, यदभूत्तदभूत, अतःपरं त्वया दुःखं न करणीयं तव सतीत्वेन सर्व संकटं नक्ष्यति, सर्वे
॥ ११२ ।।