________________
चन्द्रराजचरित्रम् दशमः परिच्छेदः
मानवजीवनतः कुक्कुटभवनम्
वभिर्बिडालैश्च तमहर्निशं रक्षन्ती विविधस्वादुफलादीनि भक्षयन्ती शान्तिमाप । कियद्दिने गते सा कुक्कुटं नीत्वा, कदाचिच्छान्तिमापन्ना माता मनुष्यमेनं विधास्यतीति बुद्धया वीरमतीसमीपमेत्य तस्याश्चरणौ स्पृष्ट्वा दीनेव तत्राऽऽस्त, परं क्रूरा सा कुक्कुटं पश्यन्त्येवाऽतिक्रुद्धा गुणावलीं प्रत्याह - एष दुष्टो मम सन्निधौ कथमानीतः ? एनं ममाऽक्षिपरोक्षं कुरु । किमयं चन्द्रवदेव ते प्रियोऽस्ति ? एवं करणेन बुद्धिहीनां त्वां मन्ये, ममाऽपकारोद्युक्तोऽयं स्वयं शोचनीयां दशां प्राप्तः । पश्याऽस्य ललाटे राज्ययोगः कुत्राऽप्यस्ति ? एतद्दर्शनेनैव मम देहो दहति, अतः शीघ्रमेनं नीत्वा पञ्जरे मुञ्च, भ्रमादपि मदभ्यर्णेऽयं नाऽऽनेतव्यः । तथोक्तायां वीरमत्यामुत्थाय तदानीमेव गुणावली कृकवाकुं नीत्वा स्वमन्दिरमागता, तदनन्तरं तदर्थं स्वर्णपिञ्जरं स्वर्णकंसी च निर्मापिता । अनुपमभक्ष्यपानैस्तं पालयन्ती विविधवाक्यैः सान्त्वयन्ती च प्रेमवाक्येन व्याहृतवत्यासीत् प्राणनाथ ! क्षणमात्रमपि त्वां न त्यक्ष्यामि, पक्षीभूतो भवान् भाविचिन्तया चिन्तितो भवेत्, परं दुःखान्तरं सुखमवश्यमेवाऽऽयाति ।
I
-
यतः
खण्डः पुनरपि पूर्णः, पुनरपि खण्डः पुनः शशी पूर्णः । संपद्विपदी प्रायः कस्यापि नहि स्थिरे स्याताम्
॥४॥
अतश्चिन्ता न कर्तव्या, भाग्यस्य पुनरावर्तनं यावदहमेवमेव कालं यापयिष्यामि, महत्येव विपदप्यायाति, तारकां वर्जयित्वा सूर्यचन्द्रावेव राहुर्ग्रसति । एवमेव तुच्छं धान्यं विहायोत्तमेषु गोधूमादिष्वेव कीटाः पतन्ति ।
।। १११ ।।