________________
चन्द्रराजचरित्रम्
यथा
—
दशमः परिच्छेदः
मानवजीवनतः कुक्कुटभवनम्
उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया । तदिदं गतमीदृशीं दशां, न विदीयें कठिनाः खलु स्त्रियः ॥ १ ॥
तस्या ईदृशीमवस्थां विलोक्य सान्त्वयन्त्यो दास्यस्तां प्रोचुः- प्रियभगिनि ! अत्र कस्यापि दोषो नास्ति, दैवाधीनं सर्वं भवति ।
यतः
अन्यथा चिन्तितं कार्य-मन्यथैव हि जायते । बलवान् विधिरेवात्र, कार्या नैव विचारणा
mn
प्राक्तनकर्म भूतैर्भोक्तव्यमेव भवति । यदा प्राग्जन्मकर्मणा तीर्थङ्कराश्चक्रवर्तिनश्च मुक्ता न बभूवुस्तदाऽस्माकं का गणना ? येन यथा कृतं तस्य तथा भोक्तव्यं भवति, अतो विलापेनाऽलं, दुःखं जहीहि । एनमेव पतिं मत्वाऽऽस्तां रोदनेन शोकेन च को लाभो भविष्यति ? येनेदं दुःखं दत्तं स एव सुखमपि दास्यति । सुखदुःखे चक्रवत् परिवर्तेते सर्वत्र सर्वेषां प्राणिनामिति भावः ।
यतः
सुखमापतितं सेव्यं, दुःखमापतितं तथा । चक्रवत् परिवर्तन्ते, दुःखानीह सुखानि च
mn
रूपान्तरमापन्नोऽप्ययमेव ताम्रचूडस्ते पतिरस्ति, अतोऽयं सर्वथा यत्नेन रक्षणीयः । कदाचित्प्रसन्नायां मातरि पुनर्मनुष्यत्वं विधास्यति शोकेन च किमपि फलं न भविष्यति । इत्थं सखीभिर्मुहुर्मुहुः प्रबोधिता गुणावली ताम्रचूडसेवायां समयं यापयन्ती
।। ११० ।।