SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् श्चरित्रं विचित्रम् | यतः दशमः परिच्छेदः मानवजीवनतः कुक्कुटभवनम् येनोदितेन कमलानि विकासितानि, तेजांसि येन निखिलानि निराकृतानि । येनान्धकारनिकरप्रसरो निरुद्धः, सोऽप्यस्तमाप हतदैववशाद्दिनेशः ॥९९॥ योऽद्य राज्याऽधीश आसीत् स एव क्षणान्तरे कुक्कुटो जातस्ततो ललाटलिखितं प्रोज्झितुं कोऽपि समर्थो न भवतीति सत्यम् । यतः शशिदिवाकरयोर्ग्रहपीडनं, गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां, विधिरहो ! बलवानिति मे मतिः ॥१००॥ ततो गतायां राजमातरि गुणावली स्वपतिस्नेहवशेन कुक्कुटमङ्के कृत्वाऽश्रुधारया स्नापयन्ती पृष्ठं हस्तेन स्फालयन्ती जगादहे प्राणप्रिय ! यच्छिरोऽनर्घ्यमुकुटेन भूषितमासीत्तत्र रक्तशिखा दृश्यते । यश्च सूर्योदयकाले मागधैर्विबोधित एव जागरित आसीत्स स्वयं तारस्वरेण लोकाञ्जागरयिष्यति । यश्च रत्नरचितहिन्दोलदोलितोऽपि सुखं नाऽमन्यत, स लोहपञ्जराऽऽन्दोलनेन सन्तोषमेष्यति। हा दैव ! त्वयैतत् किं कृतम् ? इत्थं विलपन्ती मूर्च्छिता दासीकृतोपचारैः संज्ञां नीता सा पुनरपि भृशं विललाप | ।। १०६ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy