________________
चन्द्रराजचरित्रम् दशमः परिच्छेदः
मानवजीवनतः कुक्कुटभवनम्
नक्षैश्वापि युधिष्ठिरेण रमता ज्ञातो न दोषो नु किम् ? । रामेणापि यने न हेमहरिणस्यासंभवो लक्षितः, प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते
-
mn
I
तेन मे पश्चात्तापो बोभूयते, मातः ! कुपुत्रः कदाचिद् भवतु, परं कुमाता क्वचिदपि न भवति । अस्य वय एव कियत् ? सांसारिकविषयस्याऽनुभवश्च क्व ? इति विचार्यैनं मुञ्चतु । अस्य जीवनाऽभावे सतीयती सम्पत क्वोपयोक्ष्यते ? अतो मय्येव दयां कृत्वाऽस्मै जीवनदानं देहि । अस्याऽपराधं क्षान्त्वा तस्मै वक्तव्यं मामेव कथय । एतदाकर्ण्य वीरमत्युवाच- प्रियवधु ! त्वं दूरे तिष्ठ, अस्य पुत्रस्याऽपेक्षयाऽपुत्रत्वमेव वरम् । राज्यं प्राप्य छिद्राऽन्वेषिणेऽस्मा अवश्यं दण्डो देयः । एवमुक्त्वा यदैव सा तत्कण्ठेऽसिं प्रहर्तुमुद्युक्ताऽभवत्तदैव मध्ये गुणावल्यापपात । नेत्राभ्यामश्रुधारां मुञ्चन्ती साऽब्रवीत् - मातः ! पतिभिक्षां मे देहि, कुतोऽयं सरलचितोऽस्ति पुनरपीत्थमयं कदापि न करिष्यति । गुणावल्याः प्रार्थनया स्तोकार्द्रहृदया सा मन्त्रितसूत्रं राज्ञश्चरणे बबन्ध येन स मनुष्यात्कुक्कुटो जातः । तस्यैतां दशां प्रेक्ष्याऽतिदुःखिता गुणावली वीरमतीं प्राह- मातः ! अस्मै प्राणदाने दत्तेऽपि व्यर्थजीवनोऽयं कृतः, अतो मय्येव दयां कृत्वा क्रोधं संहृत्येनं मनुष्ययोनावानय । यत आवयोर्मध्येऽयमेक एव रक्षकोऽस्ति, एनमन्तरा राज्यशासकः को भविष्यति ? विना मनुष्यत्वेनेह जीवनमपि व्यर्थमस्ति । इत्थं भृशं प्रार्थितापि निर्दया वीरमती तामाह - त्वयाऽपि कुक्कुटी भवितव्या चेत्किमपि पुनर्वक्तव्यमन्यथा जल्पनं व्यर्थमस्ति । एवं दुष्टवाक्येन भापयित्वा वीरमती स्वान्तःपुरं जगाम, अहो ! विधातु
|| १०८ ||