________________
चन्द्रराजचरित्रम् - दशमः परिच्छेदः मानवजीवनतः कुक्कुटभवनम् स कियत्कालं वञ्चयितव्यो भवेत् ? कथय किं कुर्यां ? तद्वचः श्रावं श्रावं मे चेतो दुःखीयतेतराम् । - यतःअसत्यमप्रत्ययमूलकारणं, कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम्॥९७॥
कदाचिच्चैवमिच्छा जायते, यदागः स्वीकृत्य क्षमार्थं प्रार्थयेयं, कदाचिच्च कूपे तडागे वा पतित्वा म्रियेयम् । गुणावल्या एतद्वचो निशम्यैव कोपारुणनेत्रा रुषा दन्दह्यमानाऽसिपाणिर्वीरमती चन्द्रमुपसृत्य कृतस्नानं ध्यानायोपविष्टं तं पश्यन्त्येवाऽकस्मात्पर्यके निपात्य वक्षसि तस्थुषी प्रोच्चैरुवाच-अरे दुष्ट छिद्रान्वेषिन् पापिष्ठ ! वद त्वया वधू किमुक्ता ? अधुनात एव छिद्राऽन्वेषी त्वं वृद्धत्वे मां कथं रक्षिष्यसि? मत्तो देवा अपि बिभ्यति पुनस्ते का वार्ता ? दीनारस्थः कीट इव राज्यस्थस्त्वं मदेन धन्यंमन्योऽसि, परं मद्दत्तमिदं राज्यमस्तीति त्वया न विस्मर्तव्यम् । स्वयमपि राज्यभारं वोढुमर्हाऽस्मि तवाऽऽवश्यकता नाऽस्ति स्वेष्टदेवं स्मर, अधुना त्वां जीवन्तं न त्यक्ष्यामि । विमातुर्वचः श्रुत्वा किंकर्तव्यमूढे भर्तरि गुणावली स्वाऽञ्चलं प्रसार्य सानुनयं वीरमती प्राह- पूज्यमातः ! क्रोधं संहर, अस्याऽनिष्टेन जना भवतीमेव गर्हिष्यन्ति । मम जीवनावधि सौभाग्यमचलं रक्ष, पादयोः पतामि, अञ्चलं प्रसार्यतज्जीवनभिक्षां याचे । दुर्भाग्यादेतस्य छिद्राऽन्वेषणं प्रत्यासन्नविपदा मया भवत्या उक्तम् । यतःपौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवा
|| १०७ ।।