________________
चन्द्रराजचरित्रम् दशमः परिच्छेदः
मानवजीवनतः कुक्कुटभवनम्
भ्रमादपि मत्कृतमकार्यकरणं नो शङ्कताम् । यथेह शयानमपि पतिं त्यक्त्वा कुलटेतस्ततो गच्छति, नाऽहं तथेति ध्रुवं जानीहि । अतः पारस्परिकप्रेमविघातकं वचो नो ब्रवीतु इति मुहुः प्रार्थये, पुनर्यादृशी भवदिच्छा । प्रत्युत्तरमददानस्य राज्ञो वपुषि किमपि विवाहचिह्नं दृष्ट्वाऽनेनैव प्रेमला परिणीतेति तस्या विश्वासो बभूव । तथाऽपि कुधियाऽकृततथ्यस्वीकृतिः सा गुणावली त्यक्तशय्ये राजनि वीरमतीसमीपमागता किंकर्तव्यमूढोपालम्भलुप्तधैर्या वीरमतीमवक्– मातः ! आवयोर्विमलापुरीगमनोदन्तज्ञः पतिदेवो मयि रुष्टोऽस्ति, श्लाघितस्वविद्याया भवत्या अपि तस्यैव विद्या प्रबलाऽस्तीति मन्ये । तदानीं कथिते मम वचसि प्रतीतिर्न कृताऽऽवाभ्यां मिलित्वा छलितेन तेनैकाकिनैवाऽऽवामेव परास्ते । अतः पूर्वमेव मयोक्तं यत्तस्य वञ्चनं कठिनमस्ति, यश्चैतादृशं राज्यभारं वहति संग्रामे वज्राऽऽघातमिव शस्त्रप्रहारं सहते, स धीरो वीरः स्त्रीभिः कथं वचनीयो भवेत् ? एतदपि विचारणीयम् ।
यतः
कदर्थितस्याऽपि हि धैर्यवृत्ते -र्न शक्यते धैर्यगुणः प्रमार्टुम् । अधोमुखस्याऽपि कृतस्य वह्ने-नधिः शिखा याति कदाचिदेव॥९६॥
भवत्या वाग्जालेऽहं पतिता, तेन तदग्रे लज्जाश्रयणं कर्तव्यमभूत् । मातः ! स्वचातुर्यं विद्यां च स्वसमीपे न्यस्यतु । स्वश्लाघां कृत्वा भवत्या अपि मादृशी मुग्धा बाला दुःखौघे पातितव्या नाऽऽसीत् । कौतुकदर्शनार्थं गताया मे कान्त एव रुष्टः, एतत्तु पुत्रार्थं गतायाः स्वामिनाश इव मे स्थितिरभूत् । यद्यप्येतावत्कालं मया किमपि नाऽङ्गीकृतं तथापि येन स्वनेत्राभ्यां दृष्टं
।। १०६ ।।