________________
चन्द्रराजचरित्रम् - दशमः परिच्छेदः
मानवजीवनतः कुक्कुटभवनम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
दशमपरिच्छेदे मानवजीवनतः कुक्कुटभवनम्
राज्ञोऽन्तिमवाक्येन पुनर्वक्तुमक्षमया तयोक्तम्- प्रिय ! स्वप्रवृत्तान्तं स्वान्तानिःसारयतु । अस्मत्कृतजागरणं भवान्न जानातु नाम, परमीश्वरः किं विस्मर्तुमर्हति ? अद्य कुत्राऽपि वणिगविद्या शिक्षितेति लक्ष्यते, अतोऽस्मत्कथनं हास्येन परिणमय्योपरिष्टादुच्चावचं जल्पति | सकलरात्रिवृत्तान्तं कथितायां मय्येवं हास्यं नोचितं यतोऽनेन बहुधाऽनर्थः संभाव्यते । स्वाम्याज्ञां विना बहिरपि गन्तुमशक्ताया ममेयदूरगमनं कदाचिदपि संभवति किम् ? पुनरित्थमुक्त्वा मे चेतः कथं भवान् दुनोति ? मयीदृग व्यवहारो भवता न कर्तव्यः । ततश्चन्द्रेणोक्तम्- अयि राज्ञि ! क्रोधं जहिहि यथेष्टं कुरु । स्वप्रवृत्तान्तकथनेन क्रोधकरणस्य का वार्ता ? चिरान्मत्साहचर्येऽपि मम हास्यकरणं त्वयाऽज्ञातमस्ति किम् ? अस्तु, मम तु स्वस्वपः सत्यमेव प्रतीयते न तु भ्रमः । विधात्रा धश्रूवध्वोर्युग्मं साधु कृतं, साम्प्रतं सुखेन रमस्व । तत्र मम भयं न कार्य, कृपया कदाचिन्ममाऽपि कौतुकादिकं दर्शनीयं, यथा त्वया सह ममाऽपि कार्यं सिध्येत् । किन्तु राज्ञिमहोदये ! तव यथार्थं रूपं मयाऽद्यैव दृष्टमद्य यावदहं त्वां ज्ञातुं नाऽशकम् । एतन्निशम्य सा प्राहप्रिय! मर्मभिदा तव वचसा प्रेमभेदो लक्ष्यते, इदं ते कपटहास्यं विषलिप्तेषुवच्चेतो दुनोति । कर्णेजपकथनेन मय्यसंतुष्टो भवान्
|| १०५ ||