________________
चन्द्रराजचरित्रम्
द्वादशः परिच्छेदः
पत्युर्गतिसमानास्ति, दैवतं वा यथा पतिः
I
अमुमुदन्तं यदि कश्चिच्छ्रोष्यति, तदोभयोः कुलयोर्नासाछेदो भविष्यति । एवंविधं धात्र्याः कथनं श्रुत्वा प्रेमला व्याजहारवृद्धायास्ते मुखाद्दन्ता अपि विगलिताः पुनरेवमयोग्यं कथं जल्पसि ? तवाऽस्य वचसः प्रभावो मयि नैव पतिष्यति । एतादृशे प्रलोभवचस्यागामिनी काचिदन्यैव स्त्री भविष्यति, त्वया व्यर्थं मम वञ्चनायाऽयमुद्योगो न कार्यः । हिंसकमन्त्रिणा पूर्वत एवेयं मन्त्रणा कृता तदनुसारमेवाऽखिलं कार्यमपि प्रवर्तितमिति सम्यगवगच्छामि । एवं प्रेमलाकृतमुपालम्भं शृण्वत्येव कपिला बहिरागता चोच्चैःपूत्कृत्याऽकथयत्-धावन्तु धावन्तु कञ्चिन्निपुणं चिकित्सकं द्रुतमाह्वयन्तु, वधूशरीरस्पर्शेन कुमारकनकध्वजोऽह्नाय कुष्ठी जातः । तस्य काञ्चनमयः कायो नष्टभ्रष्टो जातः, अहो ! अधुना किं करवाणि क्व वा गच्छानि ? तावदेव रविरुदितः ।
यतः
—
1
राजकुमारीप्रेमलाया मृत्युदण्डः
॥१५॥
एते केतकधूलिधूसररुचः शीतद्युतेरंशयः, प्राप्ताः सम्प्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः । चाप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः, प्राचीरागमुदीरयन्ति तरणेस्तारुण्यभाजः कराः
॥१६॥
अतो जनाः शय्यां त्यक्त्वा नित्यकर्मणः सामग्रीं चिन्वाना आसन् । तदानीमेव रोरुद्यमानामाक्रोशन्तीं च कपिलां प्रेक्ष्य हिंसकमन्त्री राजा कनकरथस्तस्य महिषी चान्ये प्रेक्षका धावमानास्तत्राऽऽगतास्तत्र च महान् हाहाकारः प्रवृत्तः । कुमारस्य
।। १२० ।।