________________
चन्द्रराजचरित्रम् - नवमः परिच्छेदः
स्वप्नो वा तद्भमः मानेन केनचिद्देवेन राज्ञः क्लेशाय वृष्टिः कृताऽस्ति । परं राज्ञः पुण्यप्रभावेण ममेदं व्योमयानं स्थिरमभूत् । एवमाकर्ण्य विद्याधर्योचेप्रिय ! ईदृगुपायो नाऽस्ति, येन तदापन्निवर्तेत, यद्यस्माभिर्भाव्यं तदेयानुपकारोऽवश्यं कार्यः । विद्याधरेणोक्तम्- ओम, यदि तस्य मातेच्छेत्तदा साऽस्या आपदोऽनायासेन स्वसूनुं रक्षितुमर्हति । एतच्छ्रुत्वा विद्याधरी स्वपरिवृढेन सह भवन्मातुः सकाशमागता । अनन्तरं विद्याधरो मातरं प्राह- तव पुत्रोपरि महदापत्तिरागामिन्यस्ति, अतः कुत्राऽपि पूतस्थाने श्रीशान्तिनाथस्य बिम्बस्थापनं कृत्वा तदने दीपपञ्चकं प्रज्वाल्य सवधूभवती ममेयं स्त्री चेति स्त्रीत्रयी रात्रिजागरां कृत्वा प्रभोर्गुणगानं कुर्यात् । उषस्यनेन लगुडेन स्वपुत्रं स्पर्शयेत्तदा सोऽनयाऽऽपदा मुक्तो भवेत् । विद्याधरोक्तं श्रुत्वा मात्राऽहमाहूता पश्चादस्माभिस्तिसृभिस्तथाऽनुष्ठितम् । प्रगे जातेऽस्य लगुडस्य स्पर्शः कारितो भवांश्चोत्थापित, इयमेव तथ्यवार्ताऽस्ति । धीरतया सर्वं श्रुत्वा राज्ञा चन्द्रेणोक्तम्- प्रिये ! तव सत्यवचनेन परमानन्दो भवतितराम, पत्युर्हितचिन्तने लीनत्वमेव सतीधर्मोऽस्ति, तच्छास्त्रेऽपि वर्णितम् । यतःमितं ददाति हि पिता, मितं भ्राता मितं सुतः । अमितस्य हि दातारं, भर्तारं का न पूजयेत् ? ॥१४॥
पतिहिताय सुकृत्यं किं नाम कुकृत्यमपि कुर्यात्तदपि श्लाघ्यं भवति, मातुः कृत्यं तूचितमेवाऽस्ति । यतः सुतस्य शुभचिन्तनं प्रसून कुर्यात्तदा कः करिष्यति ? त्वया मदर्थं यद् रात्रिजागर
|| १०२ ।।