________________
चन्द्रराजचरित्रम्
नवमः परिच्छेदः
स्वप्नो वा तद्भ्रमः
दागो विमातुरेवाऽस्ति । यथा श्रीफलजलं कर्पूरसंगतो विषं निष्पद्यते तथा सत्साधवोऽपि कुसंगत्याऽनेकविधां विकृतिमाप्नुवन्ति ।
यतः
दुर्वृत्तसङ्गतिरनर्थपरम्पराया,
हेतुः सतां भवति किं वचनीयमेतत् ? । लकेधरो हरति दाशरथेः कलत्रं,
प्राप्नोति बन्धमथ दक्षिणसिन्धुनाथः
Kn
I
दुष्टसंगतिरग्निसमा दुःखदा भवति, तथा सतामपि सर्वाऽवस्थायां हानिरेव जायते । यथार्थेयं कस्यचिदुक्तिः - स्त्री, जलं, अक्षि, अश्वः, राजा, चैतान् यथा नामयेयुस्तथैवैते नमन्ति । इत्थं विचिन्तयन् पुना राजा तां प्राह- प्रिये ! इतस्ततो व्यर्थं वचः परित्यज्य यथातथ्यं ब्रूहि यदद्य रात्रौ कुत्र क्रीडा कृताऽस्ति ? असामञ्जस्ये पतिता तथ्यकथने सभया सा मनःकल्पितं वचः श्रावयितुमारभत- प्रियप्राणेश ! श्रूयतां वैताढ्यगिरौ विशालाऽऽख्या नगर्यस्ति । तत्र मणिप्रभनामा विद्याधरराजो राज्यं करोति । चन्द्रलेखाऽभिधा तस्य भार्याऽस्ति सर्वे विद्याधरास्तेन वशीकृताः । अद्य रात्रौ तीर्थाऽटनं कृत्वाऽऽभानगरीमुपर्युपरि स्वाऽऽवासं गच्छतस्तस्य दैवात्सवृष्टिवातेन विमानं स्थगितं जातं तदवलोक्य तत्स्त्रियोक्तम् - स्वामिन् ! अद्याऽत्रासमयवृष्टिः कथमभूत् ? अस्माकं विमानं च कस्मात्प्रतिरुद्धमस्ति । तन्निशम्य विद्याधरः प्राहप्रिये! इयं वार्ताऽकथनीयाऽस्ति, व्यर्थं पराधिकारचर्चा न कर्तव्येति पत्युत्तरं निशम्य तत्कारणं जिज्ञासमाना विद्याधरी मुहुर्मुहुः पतिं पप्रच्छ । प्रान्ते विद्याधरेणोक्तम्- प्रिये ! आभानगरीं प्रति चोकुप्य
।। १०१ ।।
,