________________
स्वपो वा तद्भमः
चन्द्रराजचरित्रम् - नवमः परिच्छेदः निद्रामिषेणाऽनेकशः पार्थपरिवर्तनं कृतवान् । तदृष्ट्वा गुणावल्योक्तम्-प्राणप्रिय ! उत्तिष्ठ, प्रातः संजातमद्य तु भवान् तथाऽशयिष्ट यथा मासजागरणं कृतं भवेत् । रात्रौ जागरणाय यत्ने कृतेऽपि संलापोत्थानादेः का वार्ता ? भवता पार्थपरिवर्तनमपि न कृतं तत्र किं कारणं ? स्वप्ने कस्यचित्सम्पल्लभ्यमानासीत्किम् ? उत कस्याश्चिद् रमण्याः प्रेमार्णवे बुडन्नाऽऽसीत् ? प्रियेश ! जागृहि, भवदर्शनार्थं बहुसमयात् स्थितां मां कृपयाऽह्नाय दर्शनदानेन कृतार्थयतु । सम्प्रत्यपगता शयनवेलेदानीं राजपुत्राणां मल्लयुद्धं कर्तव्यम, राजपरिषदोऽपि समय आगतोऽस्ति । प्रभो ! उत्तिष्ठोत्तिष्ठ, यदि ते माता ज्ञास्यति, यदेतावत्कालं न जागृतः, तदा व्यर्थं विरक्ष्यति । तदा चन्द्रः कपटनिद्रां विहायोत्थितः सन्नवक्अहो ! अद्य बहु सुप्तम्, भानूदयोऽपि न ज्ञातः | रात्रौ झंझावातेन चेतोऽपि नाऽनुकूलमासीदतो जागरणेऽपि विलम्बो जातः, परं प्रिये ! तवाऽपीक्षणेक्षणेनाऽखिलरात्रिजागरा लक्ष्यते । सहैव तवाऽऽलापेन किञ्चिद् वैपरीत्यस्याऽनुभूतिर्भवति, अद्य रात्रौ कुतश्चिद् विहृत्याऽऽगतेव ज्ञायते । प्रथमं स्वीयं सकलं वृत्तान्तं कथय, पुनर्मया सह मधुराऽऽलापं कर्तव्यम् । स्वामिवचः श्रुत्वा व्याजचकिता सोवाच- प्रिय ! अद्यैवं विपरीतं कथमुद्यते ? किं भवच्चरणं त्यक्त्वा मम कुत्र गन्तव्यमस्ति ? कुत्राऽप्यहं गता नाऽऽसम, भवानेव कुत्राऽपि गत आसीदिति प्रतीयते । अहं तु भवन्तमनुक्त्वा मन्दिराद् बहिरपि पादनिक्षेपं न करोमि । इत्थं तद्वचो निशम्य साश्चर्यश्चन्द्रो मनस्यचिन्तयत्-नाऽत्राऽस्याः कश्चिद्दोषः, वीरमत्याः प्रसङ्गेनैवेयमसत्यं कटुवचनं वक्ति, सर्वमेत
--- || १०० ।।