________________
चन्द्रराजचरित्रम् - नवमः परिच्छेदः
स्वपो वा तद्भमः सन्देहं कुर्वाणाऽसि । त्वं तु यं कञ्चिद्रूपवन्तं सन्नरं द्रक्ष्यसि, तमेव चन्द्रं ज्ञास्यसि, परं त्वादृगनभिज्ञा नाऽस्मि, यदीदृगवृत्ते विश्वास कुर्याम् । इतः कोटरासीनो राजा चन्द्रोऽखिलमुदन्तं शृण्वंश्चिन्ताचलितचेता भवन् विचारितवान्- कदाचिद् वीरमती मां पश्येत्तदाऽन्यस्मादन्यो भविष्यति, परं दैवात्तथा न बभूव । अनेकान्नदीवनोपवनपर्वतादील्लङ्घयन रसालवृक्ष आभापुरीनिकटमाययौ । तदानीं ताम्रचूडाः शब्दायमाना आसन, पूर्वदिशि भानूदयसंचारोऽभवत् । यथासमयं स रसालपादपो नैजं स्थानमाससाद | तस्मिन् स्थिरीभूते वृक्षे वीरमती गुणावली च तस्मादवातरत, भाग्यवशात्तदापि चन्द्रस्तयोरक्षिगोचरो नाऽभूत् । अवतीर्योभे गात्रशुद्ध्यर्थमभ्यासवर्तिपुष्करिणीमभीयतुः । तेन राज्ञश्चन्द्रस्याऽनुकूलोऽवसरः संप्राप्तः, इति सोऽअसा बहिरेत्य सौधमुपेत्य पूर्ववत्पर्यङ्के शिश्ये । ते अपि हसन्त्यौ चाऽऽलपन्त्यावन्तःपुरमासेदतुः । अथ लगुडं दत्त्वा वीरमत्या चन्द्रस्य जागरणार्थं गुणावली विसृष्टा स्वयं, नागरिकान्विनिद्रितान कर्तुमऽचेष्टत । द्रुतमेव मन्त्रबलेन त्यक्तनिद्राः सर्वे नित्यक्रियां समाप्य स्वे स्वे कार्ये प्रसिता जाता रात्रिवृत्तं च केषामपि ज्ञातं नाऽभूत् । गुणावल्यपि निजमन्दिरमायाता | तया पूर्ववद् गाढनिद्रायां पतितश्चन्द्रो दृष्टः पटाच्छादितेन तेनाऽपि सा दृष्टा । तदानीं गुणावली स्वस्वान्ते पश्चात्तापं कुर्वत्याऽऽसीत्, यदहं व्यर्थमेवैनं स्वपतिं निद्रितं विधाय छलमकार्ष स्वार्थं पापं चाऽचिनवम् । तं यथावत्सुप्तं विलोक्य, विमलापुर्यां चन्द्रसमवरदर्शनोत्थसंशयनिवृत्त्या तस्याः परमानन्दोऽपि बभूव । ततस्तया मन्दं मन्दं वारत्रयं तस्य विग्रहे लगुडस्पर्शः कृतः । चन्द्रोऽपि
|| ६६ ||