________________
चन्द्रराजचरित्रम् - नवमः परिच्छेदः
स्वपो वा तद्भमः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य नवमपरिच्छेदे स्वप्नो वा तभ्रमः
आभापुर्याऽऽगमनसमये पथि वीरमत्या गुणावली प्रोचेप्रियवधु ! मया सहाऽऽगमनं विना विमलापुरी कुमारकनकध्वजं च त्वं कथं पश्येः ? अहमेवमेव त्वां प्रत्यहं नवं नवं कौतुकं दर्शयित्वा तवाऽभिलाषां पूरयिष्यामि, परं तदर्थं तवाऽपि मया सह प्रेमरक्षणेन ममाऽनुकूलं वर्तितव्यं भविष्यति । अस्मिंल्लोके मया विना कस्मिन्नेतत्सामर्थ्यमस्ति यो गगनमार्गेण विहृत्येयदूरमल्पकालेन पारं कुर्यात् ? केवलं सिद्धान्ते चारणमुनेद्र्तगतिर्वर्णिताऽस्ति । खगा अप्यधिकादप्यधिकतराणि दिवसे द्वादशयोजनान्येव गच्छन्ति । यत्र वायुर्गन्तुमर्हति तत्राऽहमपि गन्तुं शक्नोमि, सहैव जनैरसाध्यमपि कार्यमल्पायासेन कर्तुं प्रभवामि ।
वीरमतीमुखादात्मश्लाघामाकर्ण्य गुणावल्योक्तम्-पूज्यमातः ! श्रीमत्याः कथनं सर्वं सत्यं, भवत्याः शक्तिविषये मम शङ्कालेशोऽपि नाऽस्ति, यतस्तस्य प्रमाणं प्रत्यक्षमेव मया दृष्टम्। किन्तु मातः ! भवत्यैको भ्रमः कृतः स चाऽयम-भवती यं कुमारकनकध्वजं कथयति, स भवत्याः सुत एवाऽऽसीत्तेनैव प्रेमलया सहोद्वाहः कृतोऽस्ति । ममाऽत्र विषये सन्देहमात्रमपि न भवति, यदि ममोक्तमनृतं स्यात्तदा निष्ठुरादपि निष्ठुरैः शब्दैर्भवती मां तिरस्कुर्यात् । एतदाकर्ण्य वीरमत्योचे- प्रियवधु ! किं त्वं मत्तोऽपि चतुरतरा ? यन्मयाऽनभिज्ञातः स त्वयाऽभिज्ञातो, व्यर्थमत्र विषये
||
८||