________________
चन्द्रराजचरित्रम् - अष्टमः परिच्छेदः
चन्द्रस्य विवाहवियोगी परित्यज्य जिगमिषा न भवति परं किं कुर्याम् ? सर्पगन्धपुंध्वजयोर्गतिं गतोऽहं स्थातुं गन्तुं चाऽसमर्थोऽस्मि । इत्थं बहुशो राज्ञा चन्द्रेण तोषिताऽपि प्रेमला तस्य गमनं नाऽन्वमोदत तेन सोऽगाधचिन्तायां मनोऽभूत् । अथ हिंसकमन्त्री दुर्वचनं प्रयुञ्जानस्तत्राऽऽजगाम । तं विलोक्य लज्जिता प्रेमलैकत्र भागे तस्थौ, तदैव राजा चन्द्रोऽह्नाय बहिनिःससार | सिंहलेशेन सह मिलित्वा गमनमुचितं जानता चन्द्रेण तमुपसृत्य बभाषे- राजन् ! भवदिच्छाऽनुरूपकृतकार्योऽहं गच्छामि, रोरुद्यमानां तां प्रेमलां परित्यज्याऽऽगतोऽस्ति, तस्या लज्जारक्षणं भवत्करेऽस्ति । एवमुक्त्वा राजा चन्द्रः सिंहलपतेरनुमत्या ततो निःसृत्य यत्र वीरमत्या आम्रवृक्ष आरोपितस्तत्रोद्याने समाययौ पूर्ववच्च कोटरे तस्थिवान् । तदनन्तरमेव वीरमतीगुणावल्यौ तत्राऽऽगत्य रात्रेरवशेषत्वाद् द्रुतं वृक्षमारुरुहतुः । वीरमत्याः पूर्ववल्लगुडताडनेनामद्रुम आभापुरीं प्रति चचाल । दैवादस्मिन्नपि समये वीरमत्या गुणावल्याश्च दृष्टिश्चन्द्रे न पपातेति स सानन्देन तत्राऽस्थात् ।
||६७ ।।