________________
चन्द्रराजचरित्रम् अष्टमः परिच्छेदः
चन्द्रस्य विवाहवियोगौ मया कश्चिदपराधः कृतो भवेत्तर्हि स क्षन्तव्यः । स्ववैमनस्यकारणं च कथय ? उज्ज्वलं भवन्मुखचन्द्रमौदासीन्यं कथं व्याप्नोति? प्रिय ! क्व विमलापुरी क्व चाऽऽभापुरी ? सत्पुण्यसंयोगादेव विधात्रावयोः संगमः कृतोऽस्ति । ज्ञातभवद्वृत्ताहं प्रार्थये - मय्येवं कथमपि मा व्यवहरेथाः, अनेन भवतोऽप्रतिष्ठा भविष्यति । मम पित्रा करमोचनदाने चाऽऽतिथ्यकरणेऽपि त्रुटिर्न कृताऽस्ति । पुनरपि तत्कृता काऽपि न्यूनता भवेत्तर्हि कथय, भवदभिलषितं पूरयितुमवश्यं यतिष्ये । भवतोऽकारणरोषो मे न रोचते, ईदृशी वार्ता तु बालेभ्यो मुनिभ्यो वा शोभामावहति, भवांश्च गृहस्थोऽतो भवता हास्यविलासादिषु मनो योजनीयम् । प्रिय ! अतोऽधिकं किं कथयामि ? यदि भवान्ममाऽभ्यर्थनामस्वीकृत्य कथञ्चिद् गच्छेत्तदाऽऽभापुरीमन्विष्य तत्राऽहमप्यागमिष्यामि, दासी भूत्वा भवदङ्घ्रिसेवया स्वजीवनं व्यत्याययिष्यामीति निश्चयं जानातु | प्रेमलावचः श्रुत्वा चन्द्रोऽवक्- प्रिये ! कदाग्रहं कथं करोषि ? तव मनोभावं जानामि, परं किं कुर्यामसक्तोऽस्मि विधातुर्लेखो न विलुप्यते ।
-
यतः
अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति
॥९२॥
मम मुखं तालिकया मुद्रितमस्ति, हस्तौ पादौ च प्रतिज्ञया नौ स्तः, अतः किमपि तुभ्यं निवेदितुं नाऽर्होऽस्मि । त्वं चतुराऽसि तस्मादियतैवाऽखिलं रहस्यमवगमिष्यसीत्याशासे । ममाऽपि त्वां
|
I
।। ६६ ।।