________________
प
.
.
..
चन्द्रराजचरित्रम् - अष्टमः परिच्छेदः
चन्द्रस्य विवाहवियोगौ मुक्तकञ्चुकोऽहिरिव स कथञ्चित्प्रेमलाप्रेम त्यक्त्वोत्तस्थौ । परं तत्करं गृह्णत्या प्रेमलयोक्तम्- प्रभो ! क्व व्रजन्नसि ? चन्द्रेणाऽभाणि- प्रिये ! मलं त्यक्त्वेदानीमेवागच्छामि | साऽपि जलपात्रं नीत्वा तदनु जगाम | परावर्तितुं तन्निषेधिताऽपि सा शङ्कया तदुक्तमेकमपि न शुश्राव निरुपायाद्राज्ञोऽपि ततः परावर्तनं शीघ्रमेवाऽभूत् । तदनन्तरमेव पुनहिंसकमन्त्रिणाऽऽगत्यान्योक्त्या राज्ञे चन्द्राय संकेतः कृतः- 'हे रात्रिभूप ! चन्द्र ! पक्षे- हे निशाटन ! गन्तुं शीघ्रतां कुरु यदि त्वां दिनकरोऽद्रक्ष्यत्तदा तव रूपं प्रकटमभविष्यत् । ज्ञातसंकेतो राजा चन्द्रः संकेतं जानन्नपि किं कुर्यात्प्रेमलायाश्चातुर्यस्य पुरस्तस्यैकोऽप्युपायः साफल्यं नाऽगमत् । स गन्तुमनेकशो द्वारदेशं गतोऽपि सुगन्धः पुष्पमिव प्रेमला तस्याऽनुगमनं नाऽमुञ्चदिति, तां प्रतार्याऽपि गमनं तस्याऽसुकरमेवाऽभूत् । इतः प्रेमलाऽपि प्रेमोन्मत्ता सती तत्करं गृहीत्वा पर्यङ्कसमीप आकृष्य नीयमानं तं स्वपाः समुपवेश्याऽगदत्- प्राणेश ! भूयो भूयः किमेवं क्रियते ? कदाचिद् बहिर्गम्यते, कदाचिच्चान्तरागम्यते तस्य किं कारणमस्ति ? प्रथमसमागम एवेदृशः कपटव्यवहारः कथम् ? एवंकृते सत्यावयोः प्रेमलता कथं विकासमेष्यति ? प्रथमग्रासे मक्षिकापाते भोजनं वैकृत्यमेति । अतः स्वचित्तचापल्यं संत्यज्य सुखेनोपविशतु, अस्मिन्निष्टमधुरसम्बन्धे कटुत्वं नोत्पादयतु, भवदुक्त्या भवद्रहस्यं किञ्चित्किञ्चिज्ज्ञातवत्यस्मि, अतः सर्वथा भवद्गमनप्रतिरोधमहं करिष्यामि । हे प्राणनाथ ! मां निराशां कृत्वा भवतोऽपि गमनं नोचितमहं भवतो दासी भवदाज्ञां सदैव पालयिष्यामि । हे मम शिरोभूषण ! हे प्राणाधार! यदि
|| ६५ ।।