________________
चन्द्रराजचरित्रम् - अष्टमः परिच्छेदः
चन्द्रस्य विवाहवियोगौ मनसि चैवं विचारितवती- अस्य सिंहलपुरी तु सिन्धुनदी निकषा वर्तते, गङ्गा च पूर्वस्यां दिशि, सा त्वनेन दृष्टाऽपि नो भवेत् । पुनरयं तदुदकवर्णनं कथं करोति ? अत्र वचस्यपि गूढरहस्यस्य संभवोऽस्ति । तया नेत्रमुत्थाप्य चन्द्राऽभिमुखं दृष्टं, तदा तस्य चेत उच्चटितमिवातीव लक्षितम् । तदा पुनरपि चिन्तान्विता सा स्वमनश्चिन्ताजालं प्रस्फुटीकर्तुमलगत्तदैव सिंहलाधीशेन रहस्याहूतश्चन्द्रो गदितः- महाशय ! सम्प्रत्यल्पशेषा रजनी वर्तते, पुनरस्य स्थानस्य त्यागः प्राय एव भवतः प्रियो भवेत्, परन्तूपायाऽभावात्किं करणीयं ? सम्प्रत्यरमेव भवानितो गच्छेत्तदेव वरम् । सिंहलेशोक्ती राज्ञश्चन्द्रस्याऽतीवाऽप्रिया ज्ञाताऽभूत, परं तेन सत्यसंगरेणतत्कथनानुऽसारमेव परिणयोऽपि सहर्ष कृतस्तथैव च स स्वविवाहितामपि पत्नीं त्यक्त्वा ततो गमनाय मतिं चक्रे, यतो बुद्धिमते निपुणाय स्वल्पोऽपि संकेतः कार्यार्थं पर्याप्तो भवति । त्वरितमेवैको रथः सज्जीकृतस्तमारुह्य सपत्नीको राजा चन्द्रो निवासस्थानं परावर्तत । तत्रागते द्वावपि विविक्तस्थान आसातां, तत्र पतिदेवस्योद्विग्नमनः प्रेमलया दृष्टम् । यचोल्लासः परिणयसमये सोऽक्षदेवनकाले नाऽऽसीत्, यस्तदानीमासीत्स साम्प्रतं स्वल्पोऽपि नाऽस्ति क्षणे क्षणे विपरीतो लक्ष्यते । यदेत्थं प्रेमलाऽऽलोचयन्त्यासीत्तदैव हिंसकमन्त्रिणाऽऽगत्य संकेतितभाषया क्षिप्रं तत्स्थानत्यागाय चन्द्रो निवेदितः । झटिति ज्ञातसंकेतश्चन्द्रो महत्यसामञ्जस्ये पपात, यत एकत्र प्रेमलायाः प्रेमाऽपरत्र कनकध्वजाय कृतोद्वाहश्चाऽऽकर्षयन्नासीत्पुनः कदाचिद् वीरमती वृक्षमारुह्य विमलापुरी गच्छेत्तदा मे का गतिर्भवेदिति तस्य चिन्ताऽपि संजाता । एतत्रिविधकारणेन
|| ६४ ||