________________
चन्द्रराजचरित्रम् - नवमः परिच्छेदः
स्वप्नो वा तभ्रमः णकष्टः सोढः स तु तव प्रेमपरिचयो वर्तते, विपत्तावेव भार्याप्रीतिपरीक्षा भवति । मत्कृते त्वमेव जागरणं न कुर्वीथास्तदाऽन्यः कः कुर्यात् ? अयि चन्द्रानने ! अहं त्वद्वचस्यतिविधासं करोमि, एतत्त्वतिवरमभूत, यदेतन्मिषेणाऽखिला रात्रिः प्रभुभक्तौ गता, किन्त्वस्माकमीदृग भाग्यं कुत्र ? यत्प्रभुभक्तिं कुर्वीमहि । अर्ह
द्भक्त्या प्राणिनो जगदकूपारं तरन्ति । पुनरस्या विपदोऽपाकरणस्य का वार्ता ? प्रिये ! यथा त्वया जागरणेन रात्रिर्व्यतीता, तथा मयाऽप्याऽऽश्चर्यजनकः स्वपोऽद्य दृष्टः, सोऽतिमहानस्ति । शृणु, संक्षेपेण त्वां कथयामि-इतोऽष्टादशशतयोजनस्थां विमलापुरी मात्रा सह त्वं गता, तत्र पर्यटन्त्या त्वया कयाचित्सुरूपया रमण्या सह परिणयन् सुन्दरः पुरुषो दृष्टः । ततो युवामुभे अत्रागातामित्थं मम स्वप्ने तव कथने च महदन्तरेऽपि त्वयि सतीत्वात्तव वचनमेव तथ्यं मन्ये । इति पतिवचो निशम्य लज्जितया तयोक्तम्-भ्रममूलके स्वप्रे कदापि नो विश्वसनीयं, यतः कश्चिच्छिवपूजकः स्वप्रे मिष्टान्नपरिपूर्ण मन्दिरं दृष्ट्वोत्थितः सन् नागरिकानिमन्त्र्य मन्दिरे गतेऽदृष्टमिष्टान्नः स आगतेषु जनेषु शिवेन सर्व भक्षितं, पुनरन्यदा स्वप्रे मिष्टान्नं यदा द्रक्ष्यामि, तदाऽवश्यं भवद्भिस्तदादयिष्यामि, इति तेभ्यो न्यवेदयत् । एतन्निशम्य तैरुक्तं अरे मूर्ख ! किं त्वयाऽस्माकं स्वप्रदृष्टं मिष्टान्नं भक्षयितव्यमासीत? तेन किं कस्याऽप्युदरपूर्तिर्भवति ? एतेन विचारमूढस्त्वं प्रतिभासि। पश्चात्ते सर्वे यथाऽऽगतास्तथा गताः शिवपूजकोऽपि पश्चात्तापयुतो बभूव । इति स्वप्रमसत्यं मत्वेतोऽष्टादशशतयोजनस्य गताऽऽगत
|| १०३ ।।