SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - अष्टमः परिच्छेदः चन्द्रस्य विवाहवियोगौ तद्वचो न स्वीचकार | सा यथा यथा वरं दृष्टवती तथा तथा सन्देहोऽप्यवर्धत । इतश्च राजा मकरध्वजो वरमवलोक्य स्वभाग्यं प्रशंसयन्नेतादृशो जामातुः प्राप्त्याऽतिप्रससाद, अचिन्तयच्चयदेतादृशः पुरुषस्य निर्माणं विधात्रा कथं कृतमासीत् ? मम दुहित्रा सदृशो वरः प्राप्तोऽस्ति । ईश्वरः सदैतद् द्वन्द्वमवियुक्तं रक्षतु, संप्रति ममेयमेवाऽभिलाषाऽस्ति । एवं प्रफुल्लचेतसा मकरध्वजेन सुदायदानसमये विविधाऽनयं वस्तुजातं तस्मै वराय समर्प्य स्वौदार्यपरिचयो ददे | इत्थं वैवाहिकेऽखिले विधौ समाप्ते प्रेमला पतिमुखारविन्दमवलोकयन्ती परमं सुखमाप, सहैव च परमात्मन उपकृतिममंस्त । तदैव प्रेमलाया दक्षिणाक्षिस्फुरणेन मनसि चिन्ता जाता, परं तदक्षिस्फुरणं तया केभ्योऽपि न निवेदितम् । निर्विघ्नं विवाहकार्य-विरते सिंहलाधीशो याचकाऽऽश्रितेभ्यो दानपुरस्कारादिकं वितीर्य तान प्रीणयामास, एवमौताहिककार्ये सुसम्पन्ने समन्तादानन्दोत्सवः कारितः । नवोद्वाहितदम्पती अपि विशाले विलाससौधे विनोदार्थं जग्मतुस्तत्र स्वर्णाक्षान सज्जीकृत्य प्रक्षिप्य प्रक्षिप्य रेमाते । तदा रंरम्यमाणेन चन्द्रेण समस्यारूपेणेयं पदपङ्क्तिरुक्ता - आभापुरी के चन्द्र का, संयोग ही से साथ है । इस अचानक प्रेम का, निर्वाह किसके हाथ है ? ॥ चन्द्रोक्तामिमां समस्यां प्रेमला सम्यङ् नाऽबोधि, अतस्तया चन्द्राकाशयोः संयोगं ज्ञात्वोक्तम् आकाश से इस चन्द्र का, जिसने मिलाया साथ है । उस साथ का निर्वाह भी, करना उसी के हाथ है ॥ ।। ६२ ।।
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy