________________
चन्द्रराजचरित्रम् - अष्टमः परिच्छेदः चन्द्रस्य विवाहवियोगी दर्श दर्श प्रमुदिता जना युग्मस्याऽखण्डप्रेमरक्षणार्थं प्रभुप्रार्थनां कुर्वन्त आसन् । तत्कालमेव वीरमतीगुणावल्यौ विवाहमण्डपं प्रविविशतुस्ते अपि वरवध्वौ दृष्ट्वा मुदिते बभूवतुः । द्रुतमेव वेदीसमीपमानीय तयोर्यथाऽऽचारमुपयमः कारितः । वैवाहिकविधौ समाप्ते गुणावल्या वीरमत्यूचे- मातः ! किमेनं वरमभिजानाति ? श्रीमत्या एवाऽयं पुत्र इत्यहं वेद्मि, तत्कथनमसंभवं मन्यमाना सा तदुत्तरं नाऽदात्। परं गुणावल्याश्चेतोऽहिवेष्टितमिव जातं, तया पुनर्बभाषे- मातः ! सावधानेन पश्यतु, ममोक्तमृतं विद्धि, ममायं पतिदेवस्तेनैवोद्वाहोऽपि कृतोऽस्ति । प्रेमलां च मम सपत्नीं विधाय गृहं नेष्यतीति सन्देहो जायते, आवयोरिवाऽयमपि कथञ्चिदत्राऽऽगतो भवेत्तत्र विषये मे सन्देहश्चिन्ता चोत्पद्यते । वीरमत्योचेअयि मुग्धे ! कथमेवं क्षुभ्यसि? चन्द्रस्त्वामानगर्यां शयानोऽस्ति। अस्मिन् भूतले चन्द्रादप्यधिको रूपवानस्तीति पूर्वमेव मया त्वमुक्ता, तस्येदमेव प्रमाणमस्ति । यतःपदे पदे निधानानि, योजने रसकूपिका । भाग्यहीना न पश्यन्ति, बहुरत्ना वसुन्धरा
॥९१॥ अतस्त्वं वारंवारं चन्द्रश्चन्द्र इति किं जल्पसि ? स तु मन्त्रेण जडीभूतोऽहिरिव निद्राऽऽविष्टो भवेत् । यदा गमिष्यावो मन्त्रं प्रयोक्ष्यावस्तदाऽपनिद्रो भविष्यति, ममाऽत्रोक्तौ विश्वसिहि, स्वस्वान्ताच्चिन्तां च जहीहि, यतो भूतले सरूपा बहवो भवन्ति । वीरमत्या वचो निशम्य गुणावली मौनमाललम्बे यतस्तदा तूष्णीमवलोकनं विनोपाय एव क आसीत् ? तस्मादेव तस्याश्चेतश्चिरकालं
|| ६१ ||