________________
चन्द्रराजचरित्रम् अष्टमः परिच्छेदः
चन्द्रस्य विवाहवियोगौ
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्याऽष्टमपरिच्छेदे चन्द्रस्य विवाहवियोगौ
विवाहार्थं दत्तवाचं तं चन्द्रनृपं स्नापयित्वाऽनर्घ्याम्बरभूषणादि परिधाप्य विवाहयितुमागतानां जन्यादीनां सज्जीकरणानन्तरं यथासमयं सर्वे निजाssवासतो निर्गम्य राजमन्दिरमभिप्रतस्थिरे । प्रेक्षकाणां समूहैर्मार्गं संबाधमासीद्वरं प्रेक्ष्य मुक्तकण्ठाः सर्वे प्रशशंसुः । दिशः प्रदीपभासा दिद्युतिरे, यतो जन्यागता निर्गतास्तत्र रात्रिरपि वासरायते स्म वियति कलानिधिनाऽपि द्विगुणा शोभा धृताऽऽसीत् । वरस्थानं राज्ञा चन्द्रेण गृहीतं परं स्त्रीनृत्यगीतौ कुमारकनकध्वजस्यैव नामोच्चार्यते स्म जनवर्गैः । परं चन्द्रनृप एवोत्तमाऽश्वारूढ इति प्रेक्षकाणां दृष्टिः प्रथमं तस्मिन्नेव पतिताऽभूत् । कनकध्वजादन्योऽयं पुरुषः प्रतिभातीति केचनोक्तवन्तस्तेषु कश्चन चतुरस्तानेवं व्याजहार - अस्माभिः स दृष्ट एव कदा ? वस्तुतोऽयं पूर्वश्रुताऽनुरूप एवास्ति । धन्यास्ति राजकुमारी प्रेमला ययैष वरो लब्धस्तस्य च माताऽपि धन्या यया कन्दर्पोपमस्तनयः प्रसूतोऽस्य पुरः सुराणामपि सौन्दर्यमश्लाघ्यमस्ति । इत्थं सर्वत्र विविधा चर्चा चलति स्म, बहुतरजनाः सौन्दर्यमेव वर्णयन्त आसन् । शनैः शनैर्वरागता राजसौधसमीपमागताश्च तत्राऽऽगतेऽश्वादवतारितं वरदेवं श्वश्रूर्यथाविधि प्रपूज्य सादरं विवाहमण्डपं प्रवेशयामास । यथासमयं तत्रैवाऽऽनायिता प्रेमलाऽपि वराऽभिमुखमुपवेशिता । तदा तद्युग्मं वीक्ष्य प्रेक्षकै रतिमदनयोः शोभा समूहाञ्चक्रे । तद्द्वन्द्वं
।। ६० ।।