________________
चन्द्रराजचरित्रम् - सप्तमः परिच्छेदः
अघटितविचित्रघटना भ्यर्थनामङ्गीकरोतु, येनाग्रे कर्त्तव्यं शुभकार्यं कुर्याम् ।
हिंसकमन्त्रिणोक्तं निशम्य राज्ञा चन्द्रेण सिंहलेशः प्रोचेराजन् ! इदं कार्यं नितरामयुक्तं कृतं तदर्थं हिंसकमन्त्रिणो बहुलाऽपि निन्दाऽल्पायते। राजकुमार्याः पाणिग्रहणं कृत्वा भवद्भ्यः समर्पणमयुक्तं मन्ये, अनेन क्षात्रधर्मोऽपि नाशं याति । कृपया तदर्थं मां नाऽभ्यर्थयेत मयेदं लोकनीतिविरुद्धं सदाचारवर्जितं कुगतिपथप्रदीपकं कार्यमकायर्मस्ति । यतःदुःखं वरं चैव वरं च भैक्ष्यं, वरं च मौख्यं हि वरं रुजोऽपि। मृत्युः प्रवासोऽपि वरं नराणां, परं सदाचारविलवनं नो ॥८९॥
राज्ञा चन्द्रेणैवं स्वपृष्ठमोक्षणार्थमदभ्रमचेष्टि, परं सिंहलपतेहिंसकमन्त्रिणश्चाभ्यर्थनाप्रान्ते परोपकारपरायणस्य तस्योरीकर्तव्याऽभूत् । यतःन चन्द्रमाः प्रत्युपकारलिप्सया, करोति भाभिः कुमुदायबोधनम्। स्वभाव एवोन्नतचेतसामयं, परोपकारव्यसनं हि जीवितम्॥१०॥
___ अकृते कार्य इतो मुक्तिरसंभवेति मन्यमानेन राज्ञा चन्द्रेण क्षणमालोच्य तत्प्रार्थना स्वीकृता । तेन मुदितयो पसचिवयोराधिरं गतः । तदानीमेव जन्यानां सज्जीकरणाज्ञा राज्ञा दत्ता । विविधवाद्यरवै रोदसी व्यानशाते हस्त्यश्चादयः सन्नद्धीकृताः, तदानीं तेषामारवेणातितरां दिशो जुगुञ्जः ।
|| ८६॥