________________
द्वितीयः सर्गः। इत्थं चिन्तातुरा दूरं तरुणं तरणिं यथा । दृशा संभावयामास तं न श्रेष्ठितनूद्भवम् ॥४२८॥ . अथोज्जयिन्यां संप्राप्तो गृहीतोत्तुङ्गमन्दिरः। जनगोष्ठीषु विचरन् रञ्जयन् जनमानसम् ॥ ४२९ ॥ नव्यैः काव्यैः शुभैः श्राव्यैः सरसाथैः स्वयंकृतैः । विद्याविलास इत्याख्यां लेभे पुर्या मनोहराम् ॥४३०॥
(युग्मम् ) गृहापवरकासीना रुदती करुणस्वरैः। वासरान् गमयामास कृच्छ्रात् सौभाग्यकन्दली॥४३१॥ अन्येयुरवदद् धात्री देव्यसौ श्रेष्ठिनन्दनः। शास्त्राम्भोनिधिपारीणोधुरीणः सक्रियावताम्॥४३२॥ यौवनोद्यानदहनं मानं मुक्त्वा मनस्विनि! । प्रेमामृतरसापूर्ण तूंर्ण ब्रूहि स्ववल्लभम् ॥ ४३३॥ प्रत्युवाच सुता राज्ञो यादृशोऽस्त्येष धात्रिके । जानामि तादृशं दृष्टो मया द्वादशवत्सरीम् ॥४३४॥ कलानां कौशलाद् देवि ! रञ्जितो नागरो जनः । विद्याविलास इत्याख्यां ततो नामास्य निर्ममे ॥४३५॥ कथञ्चित्तेन खगित्वाद् रञ्जितो धात्रिके ! जनः । जानाति कनकमध्यं स्वर्णकारः, परो नहि ॥ ४३६॥
इतश्वकाश्मीरमण्डलाधीशभीमनाम्ना महीभुजा । लेखः श्रीरत्नकेतोश्च प्रेषितः सन्धिविग्रहे ॥ ४३७ ॥ सलिप्यन्तरसंपूर्णो लेखः केनापि नैव सः । वाचितो गुरुणा नूनं दत्तमुद्र इवोच्चकैः ॥ ४३८ ॥ जगाद सचिवः स्वामिन् ! वाच्यते केवलं धिया । यदि विद्याविलासेन शास्त्राम्भोधिहिमाता ॥४३९।। १ मन्जरी' इति च। २ 'भाषख निजवल्लभम्' इत्यपि ।