________________
मल्लिनाथमहाकाव्ये
नृपादेशात् समाहूतः पूर्वं पठितवत्सुखम् । तं लेखं वाचयामास निःशेषलिपिकोविदः || ४४० ।। तत्क्षणं परितुष्टेन महीनाथेन सन्मतिः । स्थापितः सचिवत्वेऽसौ न श्रद्धालुर्गुणेषु कः ? ॥४४१ ॥ नृपप्रदत्तसाम्राज्यभारः सुमतिहेतिभिः । दुःसाध्यान् साधयामास सचिवः शुचिभूषणः || ४४२॥ कदाचित् कथयामास कोऽपि क्षोणीपतेः पुरः । जगत्प्रियोऽपि देवायं न प्रियो निजयोषितः || ४४३ || कथं वेत्सि नृपोक्तोऽसौ बभाषे हन्त ! होरया । देव ! जानामि कामिन्या निजाया वल्लभो न यः । ४४४ । श्रुत्वेदं कौतुकादेष सेवावसरमागतम् । उवाच सचिवं चारु समक्षं निजपर्षदः ॥ ४४५ ॥ मन्त्रिन्नभिनव मन्त्री राज्ञो भोजनदायकः । इत्यस्माकं सदाचारः कर्तव्यः सत्वरं त्वया || ४४६ ॥ आमेत्युक्त्वा गतो गेहं विमनस्को गतस्ववत् । उवाच धात्रिका मन्त्रिश्रेष्ठं श्रेष्ठगिरा तया ॥ ४४७॥ अपमानं महीभर्त्रा किं ते वत्स ! प्रकाशितम् । किंवा धीविषयेऽप्युच्चैः कश्चिदर्थस्त्वगोचरः १ ॥४४८ ॥ न मे मातर्महीभर्त्रा मानम्लानिः प्रकाशिता । कश्चिदर्थो न मे धात्रि ! मत्यगोचरतां गतः ॥ ४४९॥ परं क्रूरनिदेशोऽयं दत्तः क्षोणीभुजा स्वयम् । यत्तवौकसि भोक्तव्यं कल्पोऽस्माकं कुले ह्ययम् ॥४५० ॥ गृहessed महीनाथे मन्त्रिण्याः किल चेष्टितम् । प्रकटं भविता सर्वं तदर्थं खेद एष मे ।। ४५१ ॥ मन्त्री ! चिन्तया चित्तं खेदक्रान्तं करोषि किम् ? | भोजने सज्जयिष्यामि राज्ञः सौभाग्यकन्दलीम् ||४५२ ॥
८०