________________
द्वितीयः सर्गः।
८१ सद्वचःश्रवणादेव सुधासिक्त इवाभवत् । हस्तावलम्बनं पुंसां पततां किं मुदे नहि ? ॥४५३॥ उवाच धात्रिका मन्त्रिगेहिनी धीरया गिरा। एकाग्रहाऽसि हे वत्से ! कृत्याकृत्यबहिर्मुखि! ॥४५४॥ मामकं वचनं वेगादेकं कुर्वभिमानिनि!। जनन्या इव नाज्ञा मे लेजितुं युज्यते कचित् ॥४५५॥ सचिवो जगतीपालं त्वद्गृहे भोजयिष्यते । अभ्यधादिति ते भर्ता मन्मुखेन तवाग्रतः॥४५६॥ मातः! केनापि भूपालो ज्ञापितश्चरितं मम । बुभुक्षुर्मा दिक्षुश्च तद् मन्ये तेन हेतुना ॥ ४५७ ॥ मातस्तईि मदाकारा मद्यामय इचाऽपराः। समानवस्त्रालङ्कारास्तिस्रस्तूर्ण समानय ॥ ४५८ ॥ भोजयन्ती महीपालं ताभिः साकमलक्षिता ।। यथा भवाम्यहं मातस्तथा कुरु गुणाकरे! ॥४५९॥ तस्या वचसि सत्यार्थे प्रगुणे विहिते चिरात् । भूपमामन्त्रयामास सचिवो भक्तिमेदुरम् ॥४६० ।। आवासे मन्त्रिणोऽथास्य विमानसदृशे श्रिया। राजाऽगात् कृतशृङ्गारः परीवारपरीवृतः ॥४६१॥ भोजनायाऽऽसनासीने भूपाले सपरिच्छदे । एका मुमोच सौवर्ण विशालं स्थालमुत्तमम् ॥ ४६२ ।। पीयूषरसनिष्यन्दिसंपूर्णानीव तत्क्षणम् । एका चिक्षेप पकानि फलान्यविकलान्यपि ॥४६३॥ अपरा कापि हृयानि पकानानि समन्ततः । द्राक् परिवेषयामास कणकङ्कणपाणिना ॥ ४६४ ॥ एका परिमलोद्गारहृद्यमोदनमद्भुता ।
अक्षिपद् भूपतेः स्थाले विशाले साधुचित्तवत्॥४६५।। १ हस्तावलम्बद इत्यपि । २ लजिताऽर्हनिदेशवत् ।
११