________________
मल्लिनाथमहाकाव्येइयं त्वियमियं मन्त्रिगेहिनीति विचिन्वता । न सम्यग् विविद राज्ञा सादृश्यं भ्रमकारिहि ॥४६६॥ कृतभुक्तिर्महीपालोऽशक्नुवन् प्रष्टुमञ्जसा। - समीपे मन्त्रिणो मौनमाधत्ते स्म सविस्मयः ॥३६७॥ सपर्या मन्त्रिणः प्राप्य गतवान् मन्दिरं नृपः। . स्वानुवाच नरानेवं न ज्ञाता सचिवाङ्गना ॥४६८॥ तस्या निरीक्षणे कार्यः कोऽप्युपायो विशारदाः। ते प्रोचुर्देव ! नगरबाह्येऽस्ति पुरदेवता ॥ ४६९ ॥ कार्य नृत्यं मन्त्रिपन्या मन्त्रिण्याऽऽतोद्यवादके । पुरो देव्याः पुरः पौरैर्देवेन ज्ञायते यथा ॥ ४७०॥ भवत्वेवं नृपः मोच्य द्वितीयेऽह्नि महीपतिः। पुरतः कथयामास तमादेशं मनोगतम् ॥ ४७१ ॥ क्षुद्राऽऽदेशमिमं श्रुत्वा गत्वौकसि सविस्मयः। अशेत मन्दिरस्यान्तश्चिन्तासन्तानतापितः ॥ ४७२ ॥ मन्त्री खेदपरो धाच्या पृष्टः प्रोचे महत्तमः । क्षुद्राऽऽदेशस्य पृथ्वीशोधात्रि! पात्रीचकार माम् ४७३॥ जगाद भूपतेः पुत्रीं धात्री पावनया गिरा। समादेशं महीभर्तुर्दुःश्रवं धीमतामपि ॥ ४७४ ॥ पटहे पटुपाटं च वाद्यमानेऽमुना मुदा। अहं नृत्यं विधास्यामि हसन्तीति जगाद सा ॥४७५॥ वादयितुममुं पुत्रि! चेदसौ ज्ञास्यते नहि । । लप्स्यते हास्यतां मन्त्री समक्षं नृपपर्षदः ॥ ४७६ ॥ तदाभाषिष्ट हृष्टा सा पुरतः सचिवेशितुः । दुष्पापार्थस्य लाभे हि हर्षो याति प्रकर्षताम् ॥४७७॥ अथ देवीगृहस्यान्तर्मश्चविन्याससुन्दरम् । साकं पौरजनैः सर्वैरुपविष्टे महीभुजि ॥ ४७८ ॥ मन्द्रमध्यादिभेदेन तत्तेतिध्वनिनादतः।