________________
द्वितीयः सर्गः ।
मन्त्रिणा वाद्यमानेऽपि पटहे पटुनिःखने ।। ४७९॥ विहितोदामशृङ्गारा रम्भेव क्षितिगोचरी । हरन्ती पौरचेतांसि समागाद् मन्त्रिगेहिनी ॥ ४८०॥ (त्रिभिर्विशेषकम् )
ध्वनिमाकर्णयत्येषा पटहस्य यथा यथा । तथा तथाsने रोमाञ्चोऽकूरपूरमपूरयत् ।। ४८१ ॥ अहो ! ईदृक कुतोऽनेन ज्ञातं पटहवादनम् || चित्रीयमाणा हृदये नर्नर्त्ति स्म लयोत्तरम् ॥ ४८२ ॥ नृणां निरीक्षमाणानां दम्पत्योस्तं कलाक्रमम् । शेषेन्द्रियभवा वृत्तिर्लोचनेषु लयं ययौ ॥ ४८३ ॥ मूर्धानं भूपतिर्धुन्वन् विस्मयस्मेरतां गतः । सर्वतत्रप्रवीणोऽसि व्याजहारेति मन्त्रिणम् ॥ ४८४ ॥ तापूर्वी कलां दृष्ट्रा पद्मिनीप्राणवल्लभः । माप द्वीपं परं द्रष्टुमिवान्यत्रापि तादृशीम् ॥ ४८५ ॥ परिस्पन्दैः समं राजा प्रतस्थे नगरीं प्रति । ऊचेऽथ मन्त्रिणी नाथ ! करमुद्रा ममापतत् ||४८६ ॥ सान्वया सुभगाssनेया सस्नेहमिति वादिनी । प्राविशद् नगरस्यान्तर्हृष्टा सौभाग्यकन्दली ॥ ४८७ ॥ तदाऽऽदेशवशादेष प्रमोदोन्मादमासदत् । धन्योऽहमद्य सद्गाच्या भाषितो गौरवोत्तरम् ||४८८ ॥ विजने तत्र तां वीक्ष्य लब्ध्वा च करमुद्रिकाम् । अचालीदुज्जयिन्यां हि बहिःस्थानां भवेद् मृतिः ॥ ४८९ ॥ शीघ्रमायन पुरीं दत्तकपाटं गोपुरं पुरः । निरीक्ष्य वप्रविस्तीर्णपयो मार्गमुपाययौ ॥ ४९० ॥ विश्रान्तोऽन्तर्भुजङ्गेन दष्टः स्पष्टमयो करे । हाहेति न्यगदद् मन्त्री मृत्योः पटहविभ्रमम् ॥ ४९१ ॥ इतव सौधमासीना वारवेश्याऽवनीशितुः ।
८३.