________________
मल्लिनाथमहाकाव्ये
तं शुश्राव महानादं कर्णयोर्विषसेचनम् ।। ४९२ ।। अद्राक्षीत् पतितं क्षोण्यां सचिवं प्रसरद्गरम् । अक्षालयच्च पाणिस्थं मणिं नीरेण भूरिणा ।।४९३॥ अपाययदमुं तच्च परोपकृतितत्परां । सोऽभूदपविषो यस्मादचिन्त्यं मणिवैभवम् ॥४९४।। पुनर्जातमिवात्मानं मन्यमानः कृतज्ञराद् । सचिवस्तामुवाचेदं किं कुर्वे तव वाञ्छितम् ॥ ४९५ ॥ चेद् नाथ! वरदोऽसि त्वं मत्तोऽन्यत्र त्वया ततः। भवेनैव भवानीतो न गन्तव्यं कदाचन ॥ ४९६ ॥ तया साकं चतुर्यामीमतिबाह्य घटीमिव । प्रातःकृत्यानि कृत्वाऽसौ निषसाद महासने ॥४९७॥ केनचिद् योगिना दत्तं प्रभावौषधिकण्डकम् । अवधात पणपद्माक्षी चरणे सचिवेशितुः ॥४९८॥ तत्प्रभावादसौ जज्ञे चन्द्रकी वरचन्द्रकः। एकस्मिन् जन्मनि प्राप्तजन्मान्तर इव क्षणात् ॥४९९॥ उड्डीय बर्हिणो भ्राम्यन् गतत्रासं पुरेऽखिले । सन्ध्यायां तत्र पण्यस्त्रीगेहं याति स्म सर्वदा ॥५००॥ कण्डकव्यत्ययादेष यवनिकान्तरादिव । प्राप्तपुंस्त्वो नट इव वाहयामास शर्वरीम् ॥५०॥ रमयित्वा निशां सर्वा पणस्त्रीणां करण्डकात् । प्रत्यहं विदधे मन्त्रिपुङ्गवं बर्हिणाकृतिम् ॥ ५०२ ॥ इतस्ततोऽपि गेहेषु भ्राम्यन्नेष दिने दिने । रात्रौ पणाङ्गनागेहमागच्छति वशीकृतः ।।५०३॥ इतो मन्त्रिण्यनायाते मन्त्रिण्यधृतिकारिणी । रतिं न क्वापि सा प्राप ग्रीष्मे हंसी मराविव ॥५०४॥ सोऽन्येशुबर्हिरूपेण भ्राम्यन् स्वगृहतोरणम् । . १ मुहूर्तवदिति च पाठः ।