________________
द्वितीयः सर्गः ।
आच्छाद्य पिच्छसंभारे वितेने तोरणश्रियम् ||५०५ ॥ पत्युर्वि रहतप्ताया मातरेष कलापवान् । प्रियागमनवत्प्रीतिं प्रदत्ते मम नेत्रयोः ॥ ५०६ ॥ अज्ञानतो मया पूर्व दृष्टः प्राणप्रियोऽप्रियः । इदानीं पूर्वदुष्कर्मविपाकाद् दूरतो गतः ।। ५०७ ॥ छद्म श्री सद्मनस्तस्य प्रियस्याहमजानती । पुराsपि रोदनं चक्रेऽधुनाऽपि चिरशिक्षितम् ||५०८॥ भोगिभोगविषज्वालालीढं दहतु चन्दनम् । कथं दहतु मे देहं निःसन्देहं हिमद्युतिः || ५०९ ।। इत्थं विलापं कुर्वाणा मुहुः सौभाग्यकन्दली । निपपात महीपीठे हतजीवेव केनचित् ।। ५१० ।। धात्र्या परिजनेनापि प्रतीकारे कृते सति । अतुच्छमूर्च्छाऽपगमात् स्वस्था तस्थौ कथञ्चन ॥ ५११ ॥ एवं च भाषमाणायां तस्या गेहादथो शिखी । अन्येद्युरगमद्भूपपुत्र्याः सौधे मनोहरे ।। ५१२ ॥ तत्सख्या कौतुकादेष विधृतो गृहिजातवत् । अर्पितो मदनावल्या विश्राम इव चेतसः । ५१३ ॥ कण्डकं त्रोटयामास वीक्षमाणा शिखण्डिनम् | नररूपिणमद्राक्षीदमुं सा सचिवोत्तमम् ॥ ५१४ ॥ किमेतदिति विस्मेरनयना मदनावली ? | रोमाञ्चकण्टकभयादिवासनमथामुचत् ।। ५१५ ॥ सत्यस्मिन्नासनासीने किमेतदिति साऽवदत् ? अथोचे सचिवः सर्वमेतस्याः पुरतो मुदा ।। ५१६ ॥ मन्त्रिन् ! त्वद्विरहे राजा निखिला नागरा अपि । विमूढमनसोऽभूवन् दिग्मूढाः पथिका इव ॥ ५१७॥ मन्त्रिन् ! निष्ठुरचित्तोऽसि रूपं संगोपयन्निजम् । कुरुते लेख्यमेकोsन्यो लेखामपि ददाति न ॥ ५१८ ॥
८५