________________
७८
मल्लिनाथमहाकाव्येउष्ट्रीमारुह्य गन्तव्यमुज्जयिन्यां त्वया द्रुतम् ॥४१४॥ अथ प्रमाणमेवास्तु जजल्प श्रेष्ठिनन्दनः । - सक्तुमध्ये घृतक्षेपो हर्षोत्कर्षाय कस्य न? ॥४१५॥ प्रदोषेऽध्यापकं नत्वाऽवादीद् विनयचट्टकः । तात ! प्रातर्गमिष्यामि पितृपादनमस्यया ॥४१६॥ हंहो ! वत्स! ममाभ्यणे स्थितो विनयभृच्चिरम् । परं विद्यालयो ज्ञातो न त्वया पूर्वकर्मतः ॥४१७॥ गुरूणां क्रमसेवा हि निष्फला न प्रजायते। एष प्रवादो मा भूयादसत्य इति चिन्तयन् ॥४१८॥ अभिमन्य पवित्रात्मा श्रीसारखतविद्यया । अपाययद् घर्षयित्वा चन्दनं श्रेष्ठिनन्दनम् ॥४१९॥ प्रणिपत्य गुरोः पादौ नयसारनिवेदिते । तस्मिन् स्थाने गतो रात्रौ हृष्टो विनयचट्टकः ॥४२०॥ तस्य साहायकं कर्तुमिव ध्वान्तं जगत्यपि । प्रसृतं पुण्यपात्राणां सहायः को न संभवेत् ॥४२१॥ नयसाराम्बरं प्रीत्या परिधाय वणिक्सुतः । तामायातां परिणीयाऽध्यासामास क्रमेलकीम् ॥४२२॥ गतवत्यथ भूयस्यां काश्यप्यां राजकन्यका । अद्राक्षीद् विनयं सर्वपाठकानां विदूषकम् ॥ ४२३ ॥ तप्तग्रावतलक्षिप्तविमुग्धशफरीयिता। सर्वाङ्गतप्ता समभूद् नितरां सजकन्यका ॥ ४२४ ॥ अविचार्य कृतं कार्य यत्तत् स्फुटं निरीक्षितम् । गुरुद्रोहपराया मे सर्वमल्पमिदं पुनः ॥ ४२५ ॥ अन्यासामपि स्वच्छन्दचारिणीनां जगत्यपि । भनो मार्गो मयाऽवश्यं नयसारप्रयोगतः ॥ ४२६ ॥ आत्मकुलक्षयत्रासाद् नयसारेण बुद्धितः । उद्वाहितो धिया न्यूनो नूनं विनयचट्टकः ॥ ४२७ ॥